________________
प्रशमरति
102
सातर्द्धिरसेष्वगुरु : प्राप्यर्द्धिविभूतिमसुलभामन्यै : । सक्त : प्रशमरतिसुखे न भजति तस्यां मुनि : सङ्गम् ॥२५५।।
या सर्वसुरवरद्धिविस्मयनीयापि सानगारट्टे :। नार्घति सहस्राभागं कोटिशतसहस्रगुणितापि ॥२५६।।
तजयमवाप्य जितविघ्नरिपुर्भवशतसहस्रदुष्प्रापम्। चारित्रमथाख्यातं संप्राप्तस्तीर्थकृत्तुल्यम् ।।२५७।।
शुक्लध्यानाद्यद्वयमवाप्य कर्माष्टकप्रणेतारम्। संसारमूलबीजं मूलादुन्मूलयति मोहम् ॥२५८।।