________________
प्रशमरति
धर्मादभूम्यादीन्द्रियसंज्ञाभ्य: करणतश्च योगाच्च । शीलाङ्गसहस्त्राणामष्टादशकस्य निष्पत्ति: ॥ २४४ ॥
शीलार्णवस्य पारं गत्वा संविग्नसुगममार्गस्य । धर्मध्यानमुपगतो वैराग्यं प्राप्नुयाद्योग्यम् ॥ २४५ ॥
आज्ञाविचयमपायविचयं च सद्ध्यानयोगमुपसृत्य । तस्माद्विपाकविचयमुपयाति संस्थानविचयं च ॥२४६॥
आप्तवचनं प्रवचनं चाज्ञा विचयस्तदर्थनिर्णयनम् । आस्रवविकथागौरवपरीषहाद्यैरपायस्तु ॥ २४७॥
886
98