________________
प्रशमरति
निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्ष : सुविहितानाम् २३८ ॥
शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा । ज्ञात्वा च रागदोषात्मकानि दुःखानि संसारे ॥ २३९॥
स्वशरीरेऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरांमरणभयैरव्यथितो य: स नित्यसुखी ॥ २४०॥
धर्मध्यानाभिरतस्त्रिदण्डविरतस्त्रिगुप्तिगुप्तात्मा । सुखमास्ते निर्द्वद्वो जितेन्द्रियपरीषहकषाय : २४१ ॥
विषयसुखनिरभिलाष : प्रशमगुणगणाभ्यलंकृत : साधुः । द्योतयति यथा न तथा सर्वाण्यादित्यतेजांसि ॥ २४२ ॥
सम्यग्दृष्टिर्ज्ञानी विरतितपोध्यानभावनायोगै: । शीलाङ्गसहस्राष्टादशकमयत्नेन साधयति ॥ २४३॥
96