________________
દયોપનિષદ્ પ્રસાદી
जिनाज्ञानुयायिष्वप्यन्यतममात्राऽऽश्रयपूज्यबुद्धेः कालुष्यपिशुनत्वात्, यदुक्तम् - नो अप्पणा पराया, गुरुणो कईया वि हुँति सुद्धाणं । जिणवयणरयणमंडण – मंडिय सव्वे वि ते सुगुरू ॥२॥ स्वामिभावप्रयुक्तममकारस्य तद्विषयापहरणकाले सन्तापमात्र
पर्यवसानात् ॥७॥ • परमार्थतः प्रहारमात्रस्य स्वगोचरतापर्यवसानात्, एकान्ततः
स्वदुःखहेतुत्वादिति हृदयम्, तदागमः-तुमं सि नाम स च्चेव, जं हंतव्वं ति मन्नसि - इति (आचाराङ्गे) ॥४२॥ आत्मकल्याणसत्कं दुर्लभतमं साधनमवाप्यापि तदसाधनं निस्त्रपत्वपिशुनमिति भावः ॥८६॥ • यस्य दया स ज्ञानी, फलप्रसूतेरेव वृक्षसद्भावज्ञापकत्वात्, निष्फलस्य ज्ञानस्य सतोऽप्यसत्त्वाच्च ॥९५।। परोपघातस्य परमार्थतः स्वोपघातात्मकतया तत्प्रवृत्तस्य प्रेक्षावत्ताक्षतेः ॥१०४॥ • न हि स्वतोऽशरणाः परेषां शरणीभवितुं समर्थाः, ततो
मरणादिदुःखभीतैर्जीवदयैव शरणीकार्येति तात्पर्यम् ॥१०८॥