SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ औष्ट्रिकमतोत्सूत्रययोरिति व्युत्पत्त्या जिनप्रवचनविपरीतमेव भाषेते, उन्मार्गगामित्वात् । तत्र निह्नवो वचोमात्रेण जिनप्रणीतमार्गमङ्गीकृत्य विपरीतं भाषते, दृष्टेविपर्यासात् । यथोत्सूत्रपदोद्घाटनकुलादिकं कुर्वाणो जिनदत्ताचार्यादिरिति । इतरस्तु वचोमात्रेणापि जिनप्रवचनमनङ्गीकृत्य विपरीतं प्रकाशते । यथा साङ्ख्यादिरिति मिथ्यादृष्टिग्रन्थकर्ता दर्शितस्तथा च दर्शितः सम्यग्दृष्टिश्चेति द्विधाऽपि ग्रन्थकर्ता । एवं च सति यदि गुणेषु मत्सरं स्यात्तर्हि भवतु तथापि विजने गत्वा नेत्रे निमील्य विचारणीयं । यतः सम्यग्मार्गावगमः स्यात् । उक्तं च श्रीहेमाचार्यपादै:'गुणेष्वसूयां दधतः परेऽमी, मा शिश्रियन्नाम भवन्तमीशम् । तथापि सम्मील्य विलोचनानि, विचारयन्तां नयवर्त्म सत्यम् ॥१॥ इतिश्रीमत्तपागणनभोङ्गणनभोमणिश्रीविजयदानसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितायामौष्ट्रिकमतोत्सूत्रप्रदीपिकायामर्हदादिहीलनया परित्यक्तसम्यक्त्वानां पुनः सम्यक्त्वारोपणप्रकारलक्षणस्तृतीयोऽधिकारः ॥३॥ __ अथ चतुर्थाधिकारे औष्ट्रिकस्यौष्ट्रिकमुखेनैवोत्सूत्रव्यवस्थापनाप्रकारः कथ्यते-तत्र तावज्जिनदत्तेन स्त्रीणां जिनार्चा प्रतिषिद्धा । तत्कारणं तावदुत्सूत्रकन्दकुद्दालाद्यनुसारेण जिनालये जिनदत्तेन रुधिरं पतितं दृष्टमिति, चामुण्डिककिंवदन्त्या तु स्त्रीधर्मागतायाः कस्याश्चिस्त्रियाः स्पर्शेन प्रतिमाविनाशो जातः, कश्चिच्च प्रतिमां पूजयन्ती स्त्री स्त्रीधर्ममागतेति । तत्र त्रयं विचार्यजिनदत्तस्वयं स्त्रीस्वरूपं जिनप्रतिमास्वरूपं चेति । तेषु तावज्जिनदत्तश्चर्च्यते-भो ! चामुण्डिकापत्य ! जिनार्चा निषेधयन् जिनदत्तः किमागमव्यवहारी श्रुतव्यवहारी वा ? तत्र न तावदागमव्यवहारीति तु त्वमपि जानासि, दशादिपूर्वधरावधिमनःपर्यवकेवलज्ञानिनामन्यतरस्यैवागमव्यवहारित्वात् । नापि श्रुतव्यवहारीति, 'अकृतेऽविधिकृते वाऽवश्यधर्मकर्तव्ये मूलतस्तत्कर्तृजातीयानां
SR No.022061
Book TitleAushtrikmatotsutra Pradipika Sanuwad
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
PublisherShasankantakoddharsuri Jain Gyanmandir
Publication Year2003
Total Pages104
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy