________________
औष्ट्रिकमतोत्सूत्र
एवं श्रीसोमसुन्दरसूरिकृतेऽधिकमासमाश्रित्य पर्युषणाव्यवस्थापनवादस्थले औष्ट्रिकस्य निह्नवत्वं सूचितमवसातव्यम् । अत्र कश्चिदाह - भो ! एते ग्रन्थास्तपापक्षीयास्तपोवतामेव प्रमाणं, नास्मादृशां तदा तं प्रति वाच्यं भो ! तव न प्रमाणं कुतः ?, प्रवचनविरुद्धत्वादुत त्वादृशमतोत्सूत्रोच्छेदकत्वेनानिष्टत्वाद्वा । न तावदाद्योऽसम्भवात् । द्वितीयो त्वादृक्कदाग्रहिजनस्याऽऽस्माकीना ग्रन्थाः प्रमाणं मा भवन्तु, न चैतावताऽस्माकं काचित् क्षतिः । कौशिक कुलस्यानिष्टस्यापि तपनस्य तदतिरिक्तानां सुलोचनानां तमः स्तोमविध्वंसकत्वस्यैव विपश्चितां तस्य प्रमाणत्वस्याऽनपायात् । न वा तव दूषणमपि किञ्चिज्जानीमः प्रत्युत तव स्वरूपं यथावद्विद्मः । यतो नहि कोऽपि कदाग्रही स्वमतोच्छेदकग्रन्थं प्रमाणीकरोति । आवश्यकनिर्युक्ति बोटिक इव, न वा तवाऽनिष्टत्वेनोत्सूत्रकन्दकु द्दालस्यापि किञ्चिद्दूषणं तस्य ग्रन्थस्य तादृशस्वभावत्वात् । अन्यथा उत्सूत्रकन्दकुद्दालत्वस्वरूपस्यैव व्याघातः । यस्मिन्नुदिते कौशिककुलं प्रमोदते स रविरेव न भवतीति न्यायात् । अथ पुनरपि कश्चिदाह - भो ! अन्यपक्षीयो ग्रन्थ एतादृशार्थावबोधकः स्यात्तर्हि अस्माकमपि प्रमाणमेव, तदा तं प्रति वाच्यम् - भो ! एतादृशमालम्बनं बालचेष्टितमेव । यतः षण्णां दर्शनानां मध्ये जैनप्रवचनस्य द्वादशाङ्गीरूपस्य तद्विचारबोधकत्वेनान्यत् कमपि कापिलेयादि शास्त्रं नास्ति । नह्येतावता जैनप्रवचनस्याऽप्रमाणता भवेत् । अत्याग्रहे तु कर्णमर्व्वाक् कृत्वा श्रृणु - तव गोत्रीयः शतपदीकार एव साक्षिक इत्यवेहिं । परमेतदन्यत्र बाढस्वरेण मा वादी: । यतस्तव गोत्र एव कलहो भविष्यति । स्वगोत्रकलहस्तु न श्रेयसे इति मदुक्तं चेतसि धार्यमित्यलं प्रपचेन । अथ पुनः कश्चिद्वदति - भो ! क्वचिद्युष्मदीयैरेव खरतरगच्छे श्रीअभयदेवसूरिः श्रीजिनवल्लभसूरित्यादि
"
३८