________________
३५
प्रदीपिका ॥ _ 'स्वाऽवधि तच्च क्षेत्रेऽत्राग्रतोऽप्येभ्यो भविष्यति । - स्तोकेष्वप्येषु चारित्रं, वज्रदुःप्रसहादिवत् ॥१॥
तच्चारित्रं स्वावधि-निजावधिं यावदत्रास्मिन् क्षेत्रे गुर्जरावनिप्रभृतिकेऽप्येभ्यस्तपोवद्भ्यो भविष्यति य एव एभिस्तपोवद्भिर्दीक्षितास्त एवं चारित्रिण इत्यर्थः, इति बलादापन्नं । एषु तपोवत्सु स्तोकेष्वपि चारित्रमस्ति । नचाऽत्रेदमाशङ्कनीयं-यदपरं सर्वमप्यचारित्रम्' एकस्मिन्नेवास्मिन् गच्छे चारित्रमिति कथं घटते ? 'वजे' त्यादि । यथा प्रभुश्रीवयरस्वामिशिष्ये वज्रे-वज्रसेने एकस्मिन्नपि चारित्रमभूत्, तथा यथा दुःप्रसहाचार्येऽल्पपरिवारेऽपि चारित्रं भविष्यति, तथैष्वेव स्तोकेष्वपि चारित्रं' 'सिद्धमिति' इति स्वस्मिन्नेव गच्छे चारित्रव्यवस्थापनान् महदसङ्गतमिति सोऽपि तिरस्कृतः, स्वाश्रितगच्छे सतश्चारित्रस्याऽपलापे परत्र वाऽसतश्चारित्रस्य प्रलापे महोत्सूत्रभाषित्वेन महापातकित्वापत्तेरिति सिद्धोऽयं ग्रन्थकर्ता चतुर्भड़यां प्रथमभने वर्तमानः सम्यग्दृष्टिरेव शुद्धमार्गाश्रितः । शुद्धमार्गाश्रितत्वं चैतद्ग्रन्थकर्तुः प्रवचनाऽविरुद्धशुद्धपरम्परागतसामाचारीसमाचरिष्णुतपागच्छनिश्राकारित्वेन सुप्रतीतमेव । किञ्च-अतीकाले साम्प्रतीनकालस्वख्यं यथोपदिष्टं तथैव दर्शनात् यथोक्तार्थप्रापकत्वेन कृतदिव्यपुरुषस्येवास्य ग्रन्थस्य प्रत्यायकत्वात् सातिशयिकज्ञानवताऽयं ग्रन्थश्चक्रे इति मत्सरभावं विहाय श्रद्धेयमिति । यच्चोक्तमात्मीयमार्ग निन्दता कथितोमार्गःस्वीकार्य इति, तदप्यत्यन्तासारं लोकविरुद्धत्वात् । नहि लोकोऽपि कोऽपि तथा चेष्टते । अन्यथा चाण्डालादे राज्ञा राज्यं देयं स्यात्, यतः भो चाण्डाल ? त्वदीयं कुलाचारं यथावद् वद, येन त्वदुक्तमहमङ्गीकरोमीत्युदीरिते राज्ञा चाण्डालः स्वकुलाचारं निन्दन् राज्यं प्रार्थयत्येव, न च तदुक्तं राजा करोति, तस्माद्यत्किञ्चिदेतत् । एतेनात्मीयमार्ग निन्दन् महानुभावः स पूज्य