SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २८ औष्ट्रिकमतोत्सूत्र भवति, कश्चिदत्यन्ताऽशुभकर्मोदयात् समुदायेन सर्वेषामप्याशातको भवति । तत्र प्रथमः छत्रत्रयादिसमृद्धिं भुञ्जानोऽप्यर्हन् वीतरागः कथमुच्यते ?, इत्युल्लपन्नऽवगन्तव्यः । द्वितीयस्तु सर्वेषां समुदायेन हीलकः, स्वपक्षस्थापकाः परपक्षोत्थापकाश्च ये ते रागद्वेषवन्तः त्याज्या इत्यादि प्रलपन्नवसातव्याः । यतः सर्वेऽपि तीर्थकरगणधरादयः स्वपक्षस्थापकाः परपक्षोत्थापकाश्च भवन्ति । उक्तं चौपपातिके 'इणमेव निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए 'ति । अस्य वृत्तिः - 'नवरमिदमेव प्रत्यक्षं 'निग्गंथे पावयणे' नैर्ग्रन्थप्रवचनं - जैनशासनं, 'सच्चे' सद्भ्यो हितं 'अणुत्तरे' नेतः प्रधानतरमन्यदस्तीत्यर्थः 'केवलिए'त्ति अद्वितीयं केवलिप्रणीतं चेत्यादि । अत्र कश्चिदाह - भो ! आगमव्यवहारिभिरेव स्वपक्षस्थापनपरपक्षोत्थापने विधेये, तेषां ज्ञानस्य निश्चयात्मकत्वात् इतरजनस्य विश्वासाऽऽस्पदत्वाच्च । नत्वितरैः, तद्वैपरीत्यात् । तदा तं प्रति वाच्यं भो ! सर्वेषामपि सम्यग्दृशां जैनप्रवचनमेव सत्यं, नेतरदित्यादिरूपेण तु ज्ञानं निश्चयात्मकमेव भवति । उक्तं च भगवत्यां तुङ्गिकानगरी श्रावकवर्णने 'अयमाउसो ! निग्गंथे पावयणे अट्ठे अयं परमट्ठे सेसे अणट्ठे 'ति । अस्य सूत्रलेशस्य वृत्तिः - ' अयमाउसो' इत्यादि, अयमिति प्राकृतत्वादिदं 'आउसो 'त्ति | आयुष्मन्निति पुत्रादेरामन्त्रणं, 'सेसे 'त्ति शेषं निर्ग्रन्थप्रवचनव्यतिरिक्तं धनधान्यपुत्रकलत्रमित्रकुप्रवचनादिकमिति । अन्यथा कुप्रवचनादिविवेकाभावेन मिथ्यादृष्टित्वमेव स्यात् । किञ्चाधुनिकैः साध्वादिभिर्जेनप्रवचनव्यवस्थापनं प्रकर्त्तव्यं न स्यात् । संशयितार्थानां प्रश्नीकृतानां सम्यग्निर्णयाभावेन
SR No.022061
Book TitleAushtrikmatotsutra Pradipika Sanuwad
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
PublisherShasankantakoddharsuri Jain Gyanmandir
Publication Year2003
Total Pages104
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy