________________
२६
औष्ट्रिकमतोत्सूत्रविदले वि हु उप्पण्णं नेहजुअं होइ नो विदलं ॥३॥ इत्यादिपरम्परागतसर्वसम्मताऽऽचार्यवचसा विरुद्धा ।।
पर्युषितद्विदलपूपिकादिग्रहणं तु श्राद्धविधिबृहत्कल्पवृत्त्यादिना विरुद्धम् । यतस्तत्र पर्युषितं द्विदलपूपिकादि केवलराद्धकूरादि तथाऽन्यदपि सर्वं क्वथितान्नं पुष्पितौदनपक्वान्नादि चाऽभक्ष्यत्वेन वर्जनीयमिति श्राद्धविधौ । तथामिच्छत्तमसंचइए विराहणा स[ तत्थ ]त्तु पाणजाईओ। संमुच्छणा य तक्कण दवे अ दोसा इमे हुंति ॥१॥
इति बृहत्कल्पवृत्तौ पत्र ६४० [गा. ६००५] । एतद्गाथावृत्तौ पर्युषितपूपिकायां लालादिसम्मूर्च्छना कथिताऽस्ति । अतस्तद्ग्रहणे संयमविराधना तत्रोक्तेति ज्ञेयम् । किञ्च-दृश्यमानचलत्रसजीवेष्वप्यनुकम्पारहितो जिनदत्ताचार्यः कसेल्लकपानीयग्रहणं कुर्वाण: सजीवपानीयं गृहिणां समर्पयंश्च पर्युषितद्विदलपूपिकादिकं गृह्णाति, तत्र किमाश्चर्यमिति ॥४॥
ससाधुसाध्वीविहारनिषेधः स्थानाङ्गादिभिः सह विरुद्धः । यतस्तत्र नद्यादावापदि गतां साध्वी हस्तादिनाऽवलम्बमानः साधु ज्ञामतिक्रमतीत्युक्तमस्ति । न चाटव्याधुत्तरणादौ कारणविशेषेऽयं विधिरिति वाच्यम् । कारणाकारणविचारणायां तु मार्गादौ गमनविधेर्भेदस्योक्तत्वात् । उक्तं च बृहत्कल्पभाष्ये
'पडिलेहिअंच ख़ित्तं संजइवग्गस्स आणणा होई। निकारणमि मग्गतो कारणे समगं व पुरतो वा' ११॥
[गा. २०६९] अस्या वृत्तिः-परं( एवं) वसतिविचारभूम्यादिविधिना प्रत्युपेक्षितं च संयतीप्रायोग्यं क्षेत्रं, ततः संयतीवर्गस्याऽऽनयनं तत्र क्षेत्रे भवति,