SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १८ औष्ट्रिकमतोत्सूत्रसंवररूपस्य पोषधस्य प्रायश्चित्तरूपप्रतिक्रमणद्वयदृष्टान्तेन शेषतिथिषु निषेधं कुर्वन् अष्टमीचतुर्दश्यादिष्वेव तिथिषु नियमेन क्रियमाणस्य चतुर्थादितपसः शेषतिथिषु निषेधं कुर्वाणः किं काकेन वारितः ? तथा च चतुष्पर्वव्यतिरिक्ततिथिषु स्वात्मनः क्रियमाणोऽतिथिसंविभागोऽपि कथं न निषिद्धः ? न च निषिद्ध एवेति वाच्यम् । अपर्वरूपासु नवम्यादितिथिषु यथेष्टं कार्यमाणत्वात्प्रत्यक्षस्यापलापस्य कर्तुमशक्यत्वात् । ___ मासकल्पादिव्युच्छेदः श्रीस्थानाङ्गादिभिः सह विरुद्धः । यतस्तत्र 'पंचविहे उवघाए पं. तं. उग्गमोवघाए उप्पायणोवघाए एसणोवघाए परिकम्मोवघाए परिहरणोवघाए'त्ति । तत्र परिहरणोवघाए 'त्ति पदवृत्तौ 'वसतिरपि मासचतुर्मासयोरुपरिकालातिक्रान्ते'ति, तथा च मासद्वयं चतुर्मासद्वयं चाऽवर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति । तत्र विचार्य-यदि मासकल्पो व्युच्छिन्नोऽभविष्यत्, तर्हि वृत्तिकर्ता किञ्चिद्विशिष्यालिखिष्यत्, तच्च न लिखितं । किन्तु मासोपरि स्थितौ च वसतिरुपहन्यत इति लिखितं । किञ्च-नित्यवासलम्पटेन जिनदत्ताचार्येण यथा मासकल्पो व्युच्छिन्नः प्रोक्तस्तथा शीतलजलादिपरिभोगसातागारवलाम्पट्यात् सम्प्रति चारित्रमप्युच्छिन्नमित्युक्त्वा भो ! लोका ! नाहं चारित्रीत्येवं कथं नोक्तवान् ? ॥४॥ __षष्ठोष्टमादितपसः संलग्नोच्चारनिषेधः श्रीकल्पसूत्रादिभिः सह विरुद्धः । यतः संलग्नोच्चाराभावे षष्ठाष्टमादितपोनिमित्तं गुर्वाज्ञामार्गणं व्यर्थमापद्येत, प्रत्यहमेकैकोपवासस्यैवाज्ञायाः साफल्यात् । तथा चायं साधुः षष्ठिक आष्टमिक इति प्रथमादिदिवसे व्यवहारो न स्यात्, किन्तु प्रत्यहं पृथगुपवासकरणेन उपवास्येवेति व्यवहारः श्रेयान् । तथा च चतुर्मासकप्रतिक्रमणे छटेण' मिति गुरुवचने सति शिष्येण कदाचिदपि 'प्रवेशितं तप'इति वक्तव्यं न स्यात्, किन्तु तथेत्येव ।
SR No.022061
Book TitleAushtrikmatotsutra Pradipika Sanuwad
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
PublisherShasankantakoddharsuri Jain Gyanmandir
Publication Year2003
Total Pages104
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy