SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १६ औष्ट्रिकमतोत्सूत्र कश्चित् कचित् केचित् भङ्गाः सम्भवन्ति, औष्ट्रिकस्य तु चतुर्भ्यः कषायेभ्योऽप्यनन्तदुःखदाश्चत्वारोऽपि प्रकाराः सम्भवन्ति, तथाहिस्त्रीजिनार्व्वानिषेधः १, जिनगृहे नर्त्तकीनृत्यनिषेध: २, चतुष्पव विना पोषधनिषेध: ३, मासकल्पविच्छेदः ४, षष्ठाष्टमादितपसः संलग्नोच्चारनिषेधः ५, गृहस्थानां 'पाणस्से' त्याकारोच्चारनिषेधः ६, श्रावकश्राविकाणां प्रतिमातपसः सम्प्रति निषेधः ७, पोषधिकानां मध्याह्नं विना देववन्दनकनिषेधः ८, आचार्यं विना प्रतिष्ठानिषेधः ९, द्रव्यद्वयातिरिक्तद्रव्यग्रहणेनाऽऽचामाम्लनिषेधः १०, असमर्थानामेकाशनादितपश्चिकीर्षूणां पोषधनिषेधः ११, श्चेत्यादि न्यूनक्रियानिरूपणमुत्सूत्रम् १ | रात्रिपोषधिकानां रात्रिपश्चिमप्रहरे सामायिककरणम् १, सामायिकं पोषधं च कुर्वतां श्राद्धानां नमस्कारत्रयपूर्वकं वास्त्रयं सामायिक [ कादि* ]दण्डकोच्चारः २, साधूनामपि गृहस्योक्तविधिनोपधानोद्वहन ३ मित्यादि अधिकक्रियाप्ररूपणरूपमुत्सूत्रम् २। सामायिकदण्डकोच्चाराऽनन्तरमीर्यापथिकीप्रतिक्रमणम् १, चतुर्दश्या: पाते पाक्षिकप्रतिक्रमणभूमिकायां त्रयोदशीसंयुक्तचतुर्दश्यां दैवसिकप्रतिक्रमणं, दैवसिकप्रतिक्रमणभूमिकायां च पञ्चदश्यां पाक्षिकप्रतिक्रमणम् २, तथा चतुर्दश्या वृद्धौ पाक्षिकप्रतिक्रमणभूमिकायां द्वितीयचतुर्दश्यां दैवसिकप्रतिक्रमणं, दैवसिकप्रतिक्रमणभूमिकायां प्रथमचतुर्दश्यां पाक्षिकप्रतिक्रमणं ३, श्रावणवृद्धौ पर्युषणाभूमिकायां भाद्रपदसितचतुर्थ्यामपर्युषणाकरणं, पर्युषणाऽनर्हायां द्वितीय- श्रावणसितचतुर्थ्यां पर्युषणाकरणं ४, भाद्रपदवृद्धौ पर्युषणायां द्वितीय-भाद्रपदशुक्लचतुर्थ्यामपर्युषणाकरणं, पर्युषणानर्हायां प्रथमभाद्रपदसितचतुर्थ्यां पर्युषणाकरणं ५, चेत्ययथास्थानक्रियाप्ररूपण - रूपमुत्सूत्रम् ३ । श्रीमहावीरस्य गर्भापहारः षष्ठं कल्याणकं भवति १, इहलोकार्थं
SR No.022061
Book TitleAushtrikmatotsutra Pradipika Sanuwad
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
PublisherShasankantakoddharsuri Jain Gyanmandir
Publication Year2003
Total Pages104
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy