________________
१००
औष्ट्रिकमतोत्सूत्र द्रष्टव्यः, भाद्रपदवृद्धौ प्रथमभाद्रपदे तेन औष्ट्रिकेन 'तत्' पर्युषणापर्व उक्तं ५ ॥१३॥ अथ 'वस्तुवितथभणनं' वस्तुस्वरूपस्य विपरीतभाषणं चतुर्थमुत्सूत्रं, ‘एवं' वक्ष्यमाणप्रकारेण एतस्य-चामुण्डिकस्य 'तत्र' वीरे गर्भापहाररूपं षष्ठं कल्याणं१ ॥१४॥ 'इहलोकस्य निमित्तं' इहलोकार्थं जिनवरभोगादिमाननमस्ति, परं लोकोत्तरमिथ्यात्वं न भवति, एवमेतस्योपदेशः२ ॥१५॥ ‘एवं' अमुना प्राकरेण चामुण्डाद्याराधनमस्ति, आदिशब्दात् क्षेत्रपालाद्यपि, नास्ति किल दोषः, तथा बलिबक्कुलादिविधिना पञ्चनदीसाधनं३, च पुनः ॥१६॥ पर्युषितद्विदलादिग्रहणे तस्य दोषप्रतिपत्तिः-दोषाङ्गीकारो नास्ति, आदिशब्दात् पर्युषितपूपिकादिग्रहणं ४, 'अपि' पुनर्दोषस्य प्रतिपत्तिरङ्गीकारोऽपि, क्क?-सश्रमणश्रमणीविहारे ससाधुसाध्वीविहार इत्यर्थ ५॥ एवमुपलक्षणात् सांगरिकबुब्बूलादीनां द्विदलत्वेनोपदेशोऽपि वस्तुवितथभणनं ज्ञेयमिति६। अत्र यद्यपि प्रागुक्तास्त्रयोऽपि प्रकाराश्चतुर्थेऽन्तर्भवन्ति, सर्वेषामपि वितथवस्तुप्ररूपणारूपत्वात् , तथापि क्रियाया आधिक्ये तावन्न कश्चिद्दोषः प्रत्युताप्रमत्तेति कस्यचिन्मुग्धस्य व्यामोहो भवति तद्व्युदासार्थं भेदकथनं, तथा च न्यूनाधिकक्रिययोरुत्सूत्रत्वमाश्रित्य तुल्यतेति भावः ॥१७॥ एवं-प्रागुक्त प्रकारेण 'चामुण्डिक मतोत्सूत्रं' 'गुरुवचनं' श्रीविजयदानसूरीश्वरवचनं 'लब्ध्वा' अवाप्य 'मया' धर्मसागरेण दर्शितं, किमर्थं ? 'त्वरितं' शीघ्रं 'निजबोधनार्थम्' आत्मज्ञानार्थमिति ॥१८॥ इत्यौष्ट्रकमतोसूत्रोद्घाटनकुलकस्य शब्दार्थमात्रावचूरिः । लिखि गणिश्री सौभाग्येण ॥ श्रीरस्तु॥
॥औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकावचूरि:समाप्ता ॥