________________
[५] नैकपुष्पं द्विधा कुर्या-न छिन्द्यात्कलिकामपि । चम्पकोत्पलभेदेन, भवेदोषो विशेषतः ॥१३॥ गन्धधृपाक्षतैः स्रग्भिः, प्रदीपैर्बलिवारिभिः ॥ . प्रधानश्च फलैः पूजा, विधेया श्रीजिनेशितुः ॥ १४॥ शान्तौ श्वेतं जये श्यामं, भद्रे रक्तं भये हरित् । पीतं ध्यानादिके लाभे, पश्चवर्णं तु सिद्धये ॥१५॥ (शान्तौ श्वेतं तथा पीतं, लाभे श्याम पराजये। मङ्गलार्थ तथा रक्तं, पञ्चवर्ण तु सिद्धये ॥) खण्डिते सन्धिते छिन्ने, रक्ते रौद्रे च वाससि । ..... दानपूजातपोहोम-सन्ध्यादि निष्फलं भवेत् ॥१६॥ पद्मासनसमासीनो, नासाग्रन्यस्तलोचनः । मौनी वस्त्रावृतास्योऽयं, पूजां कुर्याजिनेशितुः ॥१७॥ स्नानं विलेपनविभूषणपुष्पवास- .
धूपप्रदीपफलतन्दुलपत्रपूगैः । नैवेद्यवारिवसनैश्चमरातपत्र
. वादित्रगीतनटनस्तुतिकोशवृद्ध्या ॥१८॥ इत्येकविंशतिविधा जिनराजपूजा,
___ ख्याता सुरासुरगणेन कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगा
यद्यप्रिय तदिह भावाशैन योज्यम् ॥ १९ ॥ इति श्रीउमास्वातिवाचकविरचितं
पूजाप्रकरणं समाप्तम् ॥