________________
४२
ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-૨ अथाभिग्रहप्रत्याख्यानम् तच्च दण्डप्रमार्जनादिनियमरूपम्, तत्र चत्वार आकारा भवन्ति, तद्यथा"अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ" । यदा त्वप्रावरणाभिग्रहं गृह्णाति, तदा ‘चोलपट्टगागारेणं' इति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः ।
अथ विकृतिप्रत्याख्यानम्-तत्र नव अष्टौ वा आकाराः, यत्सूत्रम्"विगईओ पच्चक्खाइ, अण्णत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ" ।
मनसो विकृतिहेतुत्वात् विकृतयस्ताश्च दश, यदाहुः“खीरं दहि णवणीयं, घयं तहा तेल्लमेव गुड मज्जं । महु मंसं चेव तहा, उग्गाहिमगं च विगईओ ।।१।।" [पञ्चवस्तुके ३७१] तत्र पञ्च क्षीराणि गोमहिष्यजोष्ट्रयेलकासम्बन्धिभेदात्, दधिनवनीतघृतानि च चतुर्भेदानि, उष्ट्रीणां तदभावात् तैलानि चत्वारितिलाऽतसीलट्टासर्षपसम्बन्धिभेदात् शेषतैलानि तु न विकृतयः, लेपकृतानि तु भवन्ति गुडः-इक्षुरसक्वाथः, स द्विधा-पिण्डो द्रवश्च मद्यं द्वेधा-काष्ठपिष्टोद्भवत्वात् मधु त्रेधामाक्षिकं कौत्तिकं भ्रामरं च मांसं त्रिविधं-जलस्थलखेचरजन्तूद्भवत्वात्, अथवा मांसं त्रिविधं-चर्मरुधिरमांसभेदात् ।
अवगाहेन स्नेहबोलनेन निर्वृत्तं अवगाहिमं पक्वान्नम्, भावादिमः-[श्रीसि-६-४-२१] इतीमः, यत्तापिकायां घृतादिपूर्णायां चलाचलं खाद्यकादि पच्यते, तस्यामेव तापिकायां तेनैव घृतेन द्वितीयं तृतीयं च खाद्यकादि विकृतिः, ततः परं पक्वान्नानि, अयोगवाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते अथैकेनैव पूपकेन तापिका पूर्यते, तदा द्वितीयं पक्वान्नं, निर्विकृतिप्रत्याख्यानेऽपि कल्पते, लेपकृतं तु भवतीत्येषा वृद्धसामाचारी ।
एवं शेषाण्यपि विकृतिगतानि, तानि चामूनि"अह पेया १ दुद्धट्टी २ दुद्धवलेही य ३ दुद्धसाडी य ४ । पंच य विगइगयाई, दुद्धंमी खीरसहियाइं ५ ।।१।। अंबिलजुअंमि दुद्धे, दुद्धट्टी दक्खमीसरद्धंमि । पयसाडी तह तंदुलचुण्णयसिद्धमि अवलेही ।।२।।" [प्रवचनसारोद्धारे २२७-८] व्याख्या-अल्पतन्दुलसहिते दुग्धे राद्धे पेयोच्यते १, अम्लयुते तु दुग्धाटी, अन्ये तु बलहिकामाहुः