________________
૨૪
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-૧૨ असणाइअमालोएइ १३, पडिदंसइ १४ देइ १५ उवनिमंतेइ १६। सेहस्स तहाहाराइलुद्धो निद्धाइ गुरुपुरओ १७ ।।२।। राओ गुरुस्स वयओ, तुसिणी सुणिरोवि १८ सेसकालेवि १९। तत्थगओ वा पडिसुणइ २० बेइ किंति व २१ तुमंति गुरू २२।।३।। तज्जाए पडिहणइ २३, बेइ बहुं २४ तह कहंतरे वयइ। एवमिमंति अ २५ न सरसि २६, नो सुमणे २७ भिंदई परिसं २८ ।।४।। छिंदइ कहं २९ तहाणुट्ठिआइ परिसाइ कहइ सविसेसं ३० । गुरुपुरओ वि निसीअइ, ठाइ समुच्चासणे सेहो ३१ ।।५।। संघट्टइ पाएणं, सिज्जासंथारयं गुरुस्स तहा ३२ । तत्थेव ठाइ निसीअइ, सुअइ व सेहोत्ति ३३ तेत्तीसं।।६।।" '
आशातना हि यत्यनुसारेण यथासम्भवं श्रावकस्यापि वाच्याः, साम्प्रतमेतास्वेव किञ्चिद्विशेषेणाऽऽह'जंकिंचि मिच्छाएत्ति' यत्किञ्चन कदालम्बनमाश्रित्य, मिथ्यया मिथ्यायुक्तेन कृतयेत्यर्थः मिथ्याभावोऽत्रास्तीति अभ्रादित्वादकारे मिथ्या, एवं क्रोधयेत्यादावपि, मनसा दुष्कृता मनोदुष्कृता, तया, प्रद्वेषनिमित्तयेत्यर्थः, वाग्दुष्कृतया-असभ्यपरुषादिवचननिमित्तया, कायदुष्कृतया आसन्नगमनस्थानादिनिमित्तया क्रोधया-क्रोधयुक्तया मानया-मानयुक्तया मायया-मायायुक्तया लोभया-लोभयुक्तया, अयं भावः-क्रोधाद्यनुगतेन या काचिद्विनयभ्रंशादिलक्षणा आशातना कृता तयेति एवं दैवसिक्याशातनोक्ता।
अधुना पक्षचातुर्माससंवत्सरकालकृता इहभवान्यभवकृताऽतीतानागतकालकृता वा या आशातना तस्याः संग्रहार्थमाह-'सव्वकालियाए' सर्वकालेषु भवा सर्वकालिकी, तया अनागतकाले कथमाशातनासंभव इति चेत्, उच्यते-'श्वोऽस्य गुरोरिदमिदं वाऽनिष्टं कर्ताऽस्मीति चिन्तया इत्थं भवान्तरेऽपि तद्वधादिनिदानकरणेन सम्भवत्येव सर्व एव मिथ्योपचारा मातृस्थानगर्भाः क्रियाविशेषा यस्यां सा सर्वमिथ्योपचारा, तया, सर्वे धर्माः-अष्टौ प्रवचनमातरः सामान्येन करणीयव्यापारा वा, तेषामतिक्रमणं-लङ्घनं विराधनं यस्यां सा सर्वधर्मातिक्रमणा, एवंभूतया आशातनया यो मयाऽतिचारः= अपराधः कृतो विहितस्तस्य अतिचारस्य हे क्षमाश्रमण! युष्मत्साक्षिकं प्रतिक्रमामि=अपुनःकरणेन निवर्ते, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानम्, भवोद्विग्नेन प्रशान्तेन चेतसा तथा गहें-आत्मानं दुष्टकर्मकारिणं युष्मत्साक्षिकम् व्युत्सृजाम्यात्मानं दुष्टकर्मकारिणं तदनुमतित्यागेन ।