________________
૨૦૨
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-૧૫
आह च“आइमकाउस्सग्गे, पडिक्कमंतो अ काउ सामइअं । तो किं करेइ बीअं, तइअं च पुणोवि उस्सग्गे? ।।१।।" “समभावंमि ठिअप्पा, उस्सग्गं करिअ तो अ पडिक्कमइ । एमेव य समभावे, ठिअस्स तइअंपि उस्सग्गे ।।२।।" "सज्झायझाणतवओसहेसु उवएसथुइपयाणेसुं । संतगुणकित्तणेसुं, न हुंति पुणरुत्तदोसा उ ।।३।।" [आवश्यक निर्युक्तौ १६९५-९७]
कायोत्सर्गे च 'चन्देसु निम्मलयरा' इत्यन्तं चतुर्विंशतिस्तवद्वयं चारित्राचारविशुद्ध्यर्थं चिन्तयति पारयित्वा च कायोत्सर्ग सम्यग्दर्शनस्य सम्यग्ज्ञानहेतुत्वाज्ज्ञानाद्दर्शनं गरिष्ठमिति ज्ञानाचारात्पूर्वं दर्शनाचारविशुद्ध्यर्थं भरतक्षेत्रोत्पन्नत्वेनासनोपकारित्वाच्छ्रीऋषभादिस्तुतिरूपं चतुर्विंशतिस्तवं 'सव्वलोए अरिहंतचेइयाण मित्यादिसूत्रं च पठित्वा तदर्थमेव कायोत्सर्गमेकचतुर्विंशतिस्तवचिन्तनरूपं करोति तं च तथैव पारयित्वा सामायिकादिचतुर्दशपूर्वपर्यन्तश्रुतज्ञानाचारविशुद्ध्यर्थं 'पुक्खरवरदीवड्डे' इत्यादिसूत्रं 'सुअस्स भगवओ करेमि काउस्सग्ग'मित्यादि च पठित्वैकचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात् पारयित्वा च तं ज्ञानदर्शनचारित्राचारनिरतिचारसमाचरणफलभूतानां सिद्धानां 'सिद्धाणं बुद्धाण'मिति स्तवं पठति इह च चतुर्विंशतिस्तवद्वयचिन्तनरूपोऽयं द्वितीयश्चारित्राचारविशुद्धिहेतुः कायोत्सर्गः एकस्य चारित्राचारशुद्धिहेतुकस्य दिवसातिचारचिन्तनार्थं प्राक्कृतत्वात्, आहुरपि “दुन्नि अ हुंति चरित्ते, दंसणनाणे अ इक्किक्को" [ ] इति वचनात् । अस्मिंश्च पूर्वोक्तयुक्त्या चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्यादिना चतुर्विंशतिस्तवद्वयचिन्तनं सम्भाव्यते, नागेतनयोः तृतीयचतुर्थयोदर्शनाचारज्ञानाचारविशुद्धिहेतुकयोरिति स्थितम् ।
अथ सिद्धस्तवपठनानन्तरं आसन्नोपकारित्वात् श्रीवीरं वन्दते, ततो महातीर्थत्वादिनोज्जयन्तालकरणं श्रीनेमिम्, ततोऽपि चाष्टापदनन्दीश्वरादिबहुतीर्थनमस्काररूपां ‘चत्तारिअट्ठदसे'त्यादिगाथां पठति
एवं चारित्राद्याचाराणां शुद्धिं विधाय सकलधर्मानुष्ठानस्य श्रुतहेतुकत्वात् तस्य समृद्ध्यर्थं 'सुअदेवयाए करेमि काउस्सग्गं अन्नत्थे'त्यादि च पठित्वा श्रुताधिष्ठातृदेवतायाः स्मर्तुः कर्मक्षयहेतुत्वेन श्रुतदेवताकायोत्सर्गं कुर्यात् तत्र च नमस्कारं चिन्तयति, देवताधाराधनस्य स्वल्पयत्नसाध्यत्वेनाष्टोच्छ्वासमान एवायं कायोत्सर्ग इत्यादि हेतुः सम्भाव्यः पारयित्वा च तस्याः स्तुतिं पठति 'सुअदेवया भगवई' इत्यादि, अन्येन दीयमानां वा शृणोति एवं क्षेत्रदेवताया अपि स्मृतिर्युक्तेति तस्याः कायोत्सर्गानन्तरं