________________
૧૭૧
ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-ઉપ Reोs:
सायं पुनर्जिनाभ्यर्चा, प्रतिक्रमणकारिता ।
गुरोर्विश्रामणा चैव, स्वाध्यायकरणं तथा ।।६५।। मन्वयार्थ :
पुनः=4जी, सायं=संध्या समये, जिनाभ्यर्चा=rial, प्रतिक्रमणकारिता=प्रतिभा २९, चैवसने, गुरोःशुरुनी, विश्रामणा=विश्राम, तथा=सने, स्वाध्यायकरण स्वाध्याय २५L. IIgull दोार्थ :
વળી સંધ્યાસમયે જિનની અર્ચના, પ્રતિક્રમણકારિતા અને ગરની વિશ્રામણા અને સ્વાધ્યાયકરણ. || ५||
टीs:
'सायं' सन्ध्यासमयेऽन्तर्मुहूर्तादर्वाक्, पुनस्तृतीयवारमित्यर्थः 'जिनाभ्यर्चा' देवपूजनम्, विशेषतो गृहिधर्म इति सण्टङ्कः, एवमग्रेऽपि, अत्र चायं विशेष-उत्सर्गतः श्रावकेणैकवारभोजिनैव भाव्यम्, यदभाणि दिनकृत्ये"उस्सग्गेणं तु सड्ढो उ, सचित्ताहारवज्जओ । इक्कासणगभोई अ, बंभयारी तहेव य ।।१।।" [श्राद्धदिनकृत्ये]
यश्चैकभक्तं कर्तुं न शक्नोति, स दिवसस्याष्टमे भागेऽन्तर्मुहूर्त्तद्वयलक्षणे, यामिनीमुखादौ तु रजनीभोजनमहादोषप्रसङ्गादन्तर्मुहूर्तादागेव वैकालिकं करोति, यतो दिनकृत्य एव
“अह न सक्केइ काउं जो, एगभत्तं जओ गिही । दिवसस्सट्ठमे भागे, तओ भुंजे सुसावओ ।।१।।"
वैकालिकानन्तरं च यथाशक्ति दिवसचरमं सूर्योद्गमान्तं मुख्यवृत्त्या दिवसे सति द्वितीयपदे रात्रावपि करोति, कृत्वा च सन्ध्यायां अर्द्धबिम्बदर्शनादर्वाग् पुनरपि यथाविधि जिनं पूजयति सा च दीपधूपरूपाऽवसेयेति भावः, तथा प्रतिक्रमणस्य-सामायिकं १ चतुर्विंशतिस्तवो २ वन्दनकं ३ प्रतिक्रमणं ४ कायोत्सर्गः ५ प्रत्याख्यानं ६ चेति षड्विधावश्यकक्रियालक्षणस्य कारिता करणं, विशेषतो गृहिधर्म इति सम्बन्धः, अयं भावः-सन्ध्यायां जिनपूजनानन्तरं श्रावकः साधुपार्श्वे पोषधशालादौ वा गत्वा प्रतिक्रमणं करोति, प्रतिक्रमणशब्दश्चावश्यकविशेषवाच्यपि अत्र सामान्येन सामायिकादिषड्विधावश्यकक्रियायां रूढः, अध्ययनविशेषवाचिनोऽपि प्रतिक्रमणशब्दस्य नोआगमतो भावनिक्षेप