________________
૭૨
धर्मसंग्रह भाग-४ / द्वितीय अधिकार | दो-११ प्रतिक्रमणपूर्वकशक्रस्तवादिभिः दण्डकैरिति । ___ अत्र विधिना जिनगृहे गमनमुक्तम्, तद्विधिश्च-यदि राजा महद्धिकस्तदा 'सव्वाए इड्डीए, सव्वाए, जुइए, सव्वबलेणं, सव्वपोरिसेणं' [ ] इत्यादिवचनात् प्रभावनानिमित्तं महा देवगृहे याति । अथ सामान्यविभवस्तदौद्धत्यपरिहारेण यथानुरूपाडम्बरं बिभ्रत् मित्रपुत्रादिपरिवृतो याति, तत्र गतश्च पुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण १, किरीटवर्जशेषाभरणाद्यचित्तद्रव्याणामपरिहारेण २, कृतैकपृथुलवस्त्रोत्तरासङ्गः, एतच्च पुरुषं प्रति द्रष्टव्यम्, स्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुलतेति ३, दृष्टे जिनेन्द्रेऽञ्जलिबन्धं शिरस्यारोपयन् 'नमो जिणाणं'इति भणनप्रणमने ४, [अयमपि सवाचारवृत्तौ स्त्रीणां निषिद्धः, तथाच पाठः- एकशाटिकोत्तरासङ्गकरणं १ जिनदर्शने शिरसि अञ्जलिबन्धश्चेति २ द्वौ पुरुषमाश्रित्योक्ती, स्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुलतेति ।' तथा चागमः‘विणओणयाए गायलट्ठीए' [ ]त्ति, एतावता शक्रस्तवपाठादावण्यासां शिरस्यञ्जलिन्यासो न युज्यते, तथाकरणे हृदादिदर्शनप्रसक्तेः, यत्तु 'करयलं जाव कट्ट एवं वयासी'[ ]त्युक्तं द्रौपदीप्रस्तावे तद्भक्त्यर्थं न्युञ्छनादिवदञ्जलिमात्रभ्रमणसूनपरम्, न तु पुरुषैः सर्वसाम्यार्थं, न च तथास्थितस्यैव सूत्रोच्चारख्यापनपरं वा, अन्यदपि नृपादिविज्ञपनादावप्यादौ तथा भणनात्' [तुला सङ्घाचारवृत्ति प. १५२-३]
इत्याद्युक्तप्रायं परिभाव्यमत्रागमाद्यविरोधेनेति मनसश्चैकाग्र्यं कुर्वन्निति पञ्चविधाभिगमेन नैषेधिकीपूर्व प्रविशति, यदाह
“सच्चित्ताणं दव्वाणं विउसरणयाए १ । अचित्ताणं दव्वाणं अविउसरणयाए २ । एगल्लसाडएणं उत्तरासंगेणं ३ । चक्खुफासे अंजलिपग्गहेणं ४ । मणसो एगत्तीकरणेणं ५ ति" [भगवतीसूत्र २५, ज्ञाताधर्मकथा अध्ययन १ सू. २२, प. ४६ ए]
राजादिस्तु चैत्यं प्रविशंस्तत्कालं राजचिह्नानि त्यजति । यतः“अवहट्ट रायककुआई, पंच वररायककुअरूवाइं ।
खग्गं १ छत्तो २ वाणह ३ मउडं ४ तह चामराओ अ ५।।१।।" [विचारसारे गा. ६६५, श्राद्धदिनकृत्ये गा. ५०]
अग्रद्वारप्रवेशे मनोवाक्कायैर्गृहव्यापारो निषिध्यते इति ज्ञापनार्थं नैषेधिकीत्रयं क्रियते, परमेकैवैषा गण्यते, गृहादिव्यापारस्यैकस्यैव निषिद्धत्वात्, कृतायां च नैषेधिक्यां सावधव्यापारवजनमेव न्याय्यम्, अन्यथा तद्वैयर्थ्यापत्तेः । यतो दिनकृत्ये“मिहो कहाउ सव्वाउ, जो वज्जेइ जिणालए । तस्स निसीहिआ होइ, इइ केवलिभासिअं ।।१।।" [श्राद्धदिनकृत्ये गा. ५६] ति ।