________________
१८४
धर्मसंग्रह भाग-४ | द्वितीय मधिर | Cोs-५१ गृहिलिङ्गसिद्धा मरुदेव्यादयः । एकैकस्मिन् समये एकाकिनः सिद्धाः एकसिद्धा । एकस्मिन् समये अष्टोत्तरं शतं यावत् सिद्धा अनेकसिद्धाः । यत उक्तम्“बत्तीसा अडयाला, सट्ठी बावत्तरी अ बोद्धव्वा । चुलसीई छन्नउई, दुरहियमद्रुत्तरसयं च ।।१।।" [जीवसमासे २४९, बृहत्संग्रहण्याम् ३३३] नन्वेते सिद्धभेदा आद्ययोस्तीर्थसिद्धाऽतीर्थसिद्धयोरेवान्तर्भवन्ति, तीर्थकरसिद्धादयो हि तीर्थसिद्धाः स्युरतीर्थसिद्धा वेति? सत्यम्, सत्यप्यन्तर्भावे पूर्वभेदद्वयादेवोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थं भेदाभिधानमदुष्टमिति एष सिद्धस्तुतिरूपोऽष्टमोऽधिकारः ।
इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसन्नोपकारित्वाद्वर्त्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुतिं करोति
“जो देवाणवि देवो, जं देवा पंजली नमसंति । तं देवदेवमहिअं, सिरसा वंदे महावीरं ।।२।" 'यो' भगवान्महावीरो देवानामपि' भवनवास्यादीनां पूज्यत्वाद्देवः, अत एवाह-'यं देवाः' 'प्राञ्जलयो' विनयरचितकरसम्पुटाः सन्तो 'नमस्यन्ति' प्रणमन्ति 'तं' भगवन्तं 'देवदेवैः' शक्रादिभिः 'महितं' पूजितं 'वन्दे' 'शिरसा' उत्तमाङ्गेन, आदरप्रदर्शनार्थं चैतत्, कं तम्? 'महावीरं' विशेषेण ईरयति कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तम्, इत्थं स्तुतिं कृत्वा पुनः परोपकारायात्मभाववृद्धये च फलप्रदर्शनपरमिदं पठति
“एक्कोवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेइ नरं व नारिं वा।।३।।" एकोऽप्यासतां बहवो नमस्काराः, नमस्कारो द्रव्यभावसङ्कोचलक्षणो 'जिनवरवृषभाय' जिनाः श्रुतावधिजिनादयस्तेषां वराः केवलिनस्तेषां वृषभस्तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभस्तस्मै, स च ऋषभादिरपि भवतीत्याह-वर्धमानाय' यत्नात् कृतः सत्रितिशेषः, किम् ? संसरणं संसारस्तिर्यग्नरनारकामरभवानुभवलक्षणः स एव भवस्थितिकायस्थितिभ्यामनेकधाऽवस्थानेनालब्धपारत्वात्सागर इव संसारसागरस्तस्मात्तारयतीति पारं नयतीत्यर्थः, कमित्याह-'नरं वा नारी वा', नरग्रहण पुरुषोत्तमधर्मप्रतिपादनार्थम्, नारीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थं, यथोक्तं यापनीयतन्त्रे