SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ૧૦૪ धर्मसंग्रह लाम-४ | द्वितीय अधिकार | Rोs-११ परिकरणमुत्तरीकरणम्, अयं भावार्थः-यस्यातिचारस्य पूर्वमालोचनादि कृतम्, तस्यैव पुनः शुद्धये कायोत्सर्गस्य करणम् । __ तच्च प्रायश्चित्तकरणेन स्यादित्याह-'पायच्छित्तकरणेणं' प्रायो बाहुल्येन, चित्तं जीवं मनो वा शोधयति पापं छिनत्तीति वाऽऽर्षत्वात्प्रायश्चित्तम्, तस्य करणेन हेतुना, तच्च विशुद्ध्या स्यादित्याह'विसोहीकरणेणं' विशोधनं विशोधिरतिचारापगमादात्मनो नैर्मल्यम्, तस्याः करणेन हेतुना । __तदपि विशल्यत्वे सति स्यादित्याह-'विसल्लीकरणेणं' विगतानि शल्यानि मायादीनि यस्यासौ विशल्यः, अविशल्यस्य विशल्यस्य करणं विशल्यीकरणं तेन हेतुना । किमित्याह-'पावाणं कम्माणं निग्घायणट्ठाए' पापानां भवहेतूनां कर्मणां ज्ञानावरणादीनां निर्घातनमुच्छेदः, स एवार्थः प्रयोजनम् तस्मै, 'ठामि' अनेकार्थत्वाद्धातूनां करोमि 'कायोत्सर्ग' कायव्यापारत्यागमित्यर्थः । किं सर्वथा? नेत्याह-'अन्नत्थ ऊससिएण'मित्यादि । अन्यत्रोच्छ्वसितात् 'ऊर्ध्वंश्वासग्रहणात्' उत् ऊर्ध्वं प्रबलं वा श्वसितम् उच्छ्वसितमिति व्युत्पत्तेः अत्र पञ्चम्यर्थे तृतीया, तन्मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवतः कायस्योत्सर्ग इत्यर्थः, एवमुत्तरत्रापि, एवं 'निःश्वसितात्' श्वासमोक्षणात् 'कासितात्' क्षुतात्, 'जृम्भिताद्' उद्गारितात्, एतानि प्रतीतानि, वातनिसर्गोऽधोवातनिसर्गस्तस्मात् कासितादीनि च जीवरक्षार्थं मुखे हस्तदानादियतनया कार्याणि, 'भमलीए' अकस्माद्देहभ्रमेः 'पित्तमुच्छाए' पित्तसंक्षोभादीषत्मोहो मूर्छा तस्याः तयोश्च सत्योरुपवेष्टव्यम्, सहसापतने मा भूत्संयमात्मविराधनेति। 'सुहुमेहिं' इत्यादि सूक्ष्मेभ्योऽङ्गसंचालेभ्यो रोमोत्कम्पादिभ्यः, सूक्ष्मेभ्यः खेलसंचालेभ्यः, खेलः= श्लेष्मा, सूक्ष्मेभ्यो दृष्टिसंचालेभ्यो निमेषादिभ्यः । उच्छ्वसितादिभ्योऽन्यत्र कायोत्सर्ग करोमीति, तावता किमुक्तं भवति ? 'एवमाइएहिं' इत्यादि एवमादिभिरुच्छ्वसितादिभिः पूर्वोक्तैराकारैरपवादैरादिशब्दादन्येऽपि गृह्यन्ते, अग्नेर्विद्युतो वा ज्योतिषः स्पर्शने प्रावरणं गृह्णतोऽपि न भङ्गः । ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति । येन तद्भङ्गो न भवति? उच्यते-नात्र नमस्कारेण पारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणः कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत ऊर्ध्वं, नमस्कारमपठित्वा पारयतो भङ्गः । अपरिसमाप्तेऽपि च पठतो भग एव, तस्मात् यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव 'नमो अरिहंताणमिति वक्तव्यम् तथा मार्जारमूषकादेः पुरतो गमने अग्रतः सरतोऽपि, चौरसम्भ्रमे राजसम्भ्रमे वा सर्पदष्टे आत्मनि परे वा साध्वादौ अपूर्णमपि कायोत्सर्ग पारयतोऽपि न भङ्गः । यदाहुः
SR No.022042
Book TitleDharm Sangraha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages218
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy