________________
૯૬.
धर्मसंग्रह भाग-४ | द्वितीय अधिकार | cs-११ गरीयस्त्वम्, शेषाणां तु पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया एवोत्तरप्रपञ्चः। सम्पत् १ ।
क्व सति विराधना? 'गमणागमणे' गमनं चागमनं चेति समाहारद्वन्द्वस्तस्मिन् । तत्र गमनं स्वस्थानादन्यत्र यानम्, आगमनं च तद्व्यत्ययतः, सम्पत् २ । तत्रापि कथं विराधनेत्याह-'पाणक्कमणे' इत्यादि प्राणिनो-द्वीन्द्रियादयस्तेषामाक्रमणे सङ्घट्टने पादेन पीडने, तथा बीयक्कमणे हरियक्कमणे,' बीजाक्रमणे, हरिताक्रमणे, आभ्यां सर्वबीजानां शेषवनस्पतीनां च जीवत्वमाह, सम्पत् ३ । तथा 'ओसाउत्तिंगपणगदगमट्टीमक्कडासंताणासंकमणे' अवश्यायः-त्रेहः, अस्य च ग्रहणं सूक्ष्मस्याप्यप्कायस्य परिहार्यत्वख्यापनार्थम्, उत्तिङ्गा=भूम्यांवृत्तविवरकारिणो गर्दभाकारा जीवाः कीटिकानगराणि वा, पनकः पञ्चवर्णा फुल्लिः दकमृत्तिका अनुपहतभूमौ चिक्खिल्लः, यद्वा दकम्-अप्कायो मृत्तिकापृथ्वीकायः, मर्कट:-कोलिकस्तस्य सन्तानो-जालकं, ततश्चैषां पदानां द्वन्द्वः, तेषां सङ्क्रमणेआक्रमणे, संपत् ४ ।
किं बहुना? 'जे मे जीवा विराहिया' ये केचन मया जीवा विराधिता-दुःखे स्थापिताः, सम्पत् ५ । ते च के ? इत्याह-'एगेंदिआ इत्यादि' एकमेव स्पर्शनरूपमिन्द्रियं येषां ते एकेन्द्रिया:पृथिव्यादयः, एवं स्पर्शनरसनोपेता द्वीन्द्रियाः-शङ्खादयः, स्पर्शनरसनघ्राणयुक्तास्त्रीन्द्रिया:-कीटिकादयः, स्पर्शनरसनघ्राणचक्षुःसमन्विताः चतुरिन्द्रिया-वृश्चिकादयः, स्पर्शनरसनघ्राणचक्षुःश्रोत्रसहिताः पञ्चेन्द्रियाः-नारकतिर्यग्नरामरादयः, सम्पत् ६ ।
विराधनाप्रकारमाह-'अभिहया इत्यादि' अभिमुखमागच्छन्तो हता अभिहताः-पादेन ताडिताः उत्क्षिप्य क्षिप्ता वा, 'वर्तिताः' पुञ्जीकृताः धूल्यादिना वा स्थगिताः, 'श्लेषिताः' भूम्यादौ लगिताः ईषत् पिष्टा वा, ‘सङ्घातिताः' मिथो गात्रैः पिण्डीकृताः, 'सङ्घट्टिताः' मनाक् स्पृष्टाः, 'परितापिताः' सर्वतः पीडिताः, 'क्लामिताः' ग्लानिं प्रापिताः मारणान्तिकसमुद्घातं नीता इत्यर्थः, 'अवद्राविता' उत्त्रासिताः, 'स्थानात् स्थानं सङ्क्रामिता' स्वस्थानात्परस्थानं नीताः, 'जीविताद्व्यपरोपिताः' मारिता इत्यर्थः । संपत् ७ ।
'तस्स'त्ति अभिहयेत्यादिविराधनाप्रकारस्य 'मिच्छामि दुक्कडंति मिथ्या मे दुष्कृतम्, एतद्दुष्कृतं मिथ्या-निष्फलं मे भवत्वित्यर्थः । अस्य चैतन्निरुक्तम्“मि त्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ । . मि त्ति य मेराइ ठिओ दु त्ति दुगुंछामि अप्पाणं ।।१।।"