________________
૨૬૨
धर्भसंग्रह भाग-3/द्वितीय मधिर| Res-4g
लोार्थ :
પ્રેષણ. આનયન. શબ્દનો અનુપાત, રૂપનો અનુપાત. પુદગલનું પ્રેરણ એ દેશાવગાસિક प्रतमा मतियारो हेवाय छे. II45|| टी :
प्रेषणं चानयनं चेति प्रेषणाऽऽनयने, शब्दश्च रूपं चैतयोरनुपातने अवतारणे, शब्दानुपातो रूपानुपातश्चेत्यर्थः, पुद्गलप्रेरणं चेति पञ्चातिचारा 'देशावकाशिके' देशावकाशिकनाम्नि व्रते मता।
अयं भावः-दिग्व्रतविशेष एव देशावकाशिकव्रतम्, इयाँस्तु विशेषो-दिग्व्रतं यावज्जीवं, संवत्सरचतुर्मासीपरिमाणं वा, देशावकाशिकं तु दिवसप्रहरमुहूर्तादिपरिमाणम्, तस्य च पञ्चातिचारास्तद्यथा
प्रेषणं भृत्यादेविवक्षितक्षेत्राद् बहिः प्रयोजनाय व्यापारणम्, स्वयं गमने हि व्रतभङ्गः स्यादिति अन्यस्य प्रेषणम्, देशावकाशिकव्रतं हि मा भूद्गमनाऽऽगमनादिव्यापारजनितप्राण्युपमर्द इत्यभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः, परस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति प्रथमोऽतिचारः १ ।। __ आनयनं-विवक्षितक्षेत्राद बहिः स्थितस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रे प्रापणं सामर्थ्यात्प्रेष्येण, स्वयं गमने हि व्रतभङ्गः स्यात्, परेण त्वानयने न भङ्ग इति बुद्ध्या यदाऽऽनाययति सचेतनादि द्रव्यं तदाऽतिचार इति द्वितीयः २।
शब्दस्य-क्षुत्कासितादेरनुपातनं श्रोत्रेऽवतारणं शब्दानुपातनं, यथा विहितस्वगृहवृतिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहः प्रयोजने उत्पन्ने विवक्षितक्षेत्राद् बहिव्रतभङ्गभयात्स्वयं गन्तुं, बहिःस्थितं चाह्वातुमशक्नुवन् वृतिप्राकारादिप्रत्यासत्रवर्तीभूय कासितादिशब्दम् आह्वानीयानां श्रोत्रेऽनुपातयति, ते च तच्छ्रवणात्तत्समीपमागच्छन्तीति शब्दानुपातननामाऽतिचारस्तृतीयः ३ ।।
एवं रूपानुपातनम, यथा रूपं-शरीरसंबन्धि उत्पन्नप्रयोजनः शब्दमनुच्चारयन्नाह्वानीयानां दृष्टावनुपातयति, तद्दर्शनाच्च तत्समीपमागच्छन्तीति रूपानुपातनाख्योऽतिचारश्चतुर्थः ४ ।।
तथा पुद्गलाः-परमाणवस्तत्सङ्घातसमुद्भवा बादरपरिणाम प्राप्ता लोष्टादयोऽपि, तेषां प्रेरणंक्षेपणम् विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परगृहगमननिषेधाद्यदा लोष्टकान् परेषां बोधनाय क्षिपति, तदा लोष्टातिपातसमनन्तरमेव ते तत्समीपमनुधावन्ति, ततश्च तान् व्यापारयतः स्वयमगच्छतोऽप्यतिचारो भवतीति पञ्चमः ५ ।