________________
धर्मसंग्रह भाग-3/द्वितीय मधिर/Gोs-3१
भोगश्चोपभोगश्च भोगोपभोगौ तयो गोपभोगयोर्यत् 'सङ्ख्याविधानं' परिमाणकरणं भवति, कुतः? 'स्वशक्तितः' निजशक्त्यनुसारेण तद् भोगोपभोगमानाख्यं' भोगोपभोगपरिमाणनामकं 'द्वितीयं' 'गुणवतं' ज्ञेयम्, आवश्यके त्वेतव्रतस्योपभोगपरिभोगव्रतमितिनामोच्यते तथा च सूत्रम्
"उवभोगपरिभोगवए दुविहे पण्णत्ते, तंजहा-भोअणतो कम्मओ अ" [प्रत्याख्यानावश्यके सू० ७ हारिभद्रीवृत्तिः प. ८२८] त्ति ।
एतद्वृत्तिर्यथा-"उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद् भोग उपभोगः, अशनपानादेः, अथवाऽन्तर्भोग उपभोगः आहारादेः, उपशब्दोऽत्रान्तर्वचनः, परिभुज्यते इति परिभोगः, परिशब्दोऽसकृद्वृत्तौ वर्त्तते, पुनः पुनर्भोगः परिभोगो वस्त्रादेः, बहिर्भोगो वा परिभोगो वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति । एतद्विषयं व्रतम् उपभोगपरिभोगव्रतम् ।" [तुला-आवश्यकहारिभद्रीवृत्ति प. ८२८-ए]
तथा च प्रकृते निपातानामनेकार्थत्वात् उपभोगशब्दः परिभोगार्थस्तत्समभिव्याहारेण च भोगशब्दस्योपभोगे निरूढलक्षणेति न कश्चिद्विरोध इति ध्येयम्, इदं च द्विविधम्, भोजनतः कर्मतश्च उपभोगपरिभोगयोरासेवाविषययोर्वस्तुविशेषयोस्तदुपार्जनोपायभूतकर्मणां चोपचारादुपभोगादिशब्दवाच्यानां व्रतमुपभोगपरिभोगव्रतमिति व्युत्पत्तेः, तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यम्, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेति ।
अत्रेयं भावना-श्रावकेण हि तावदुत्सर्गतः प्रासुकैषणीयाहारभोजिना भाव्यम्, तस्मिन्नसति सचित्तपरिहारः कार्यः, तस्याप्यशक्तौ बहुसावद्यान्मद्याऽऽमिषाऽनन्तकायादीन् वर्जयता प्रत्येकमिश्रसचित्तादीनां प्रमाणं कार्यम् । भणितं च - “निरवज्जाहारेणं १, निज्जीवेणं २ परित्तमीसेणं ३ । अत्ताणुसंधणपरा, सुसावगा एरिसा हुंति ।।१।।" [सम्बोधप्र. श्रा. ७०]
एवमुत्सवादिविशेषं विनाऽत्यन्तचेतोगृद्ध्युन्मादजनापवादादिजनकमत्युद्भटवेषवाहनालङ्कारादिकमपि श्राववको वर्जयेत्, यतः“अइरोसो अइतोसो, अइहासो दुज्जणेहिं संवासो । अइउब्भडो अ वेसो, पञ्चवि गुरुअंपि लहुअंति ।।१।।"
अतिमलिनातिस्थूलहस्वसच्छिद्रवस्त्रादिसामान्यवेषपरिधानेऽपि कुचेलत्वकार्पण्यादिजनापवादोपहसनीयतादि स्याद्, अतः स्ववित्तवयोऽवस्थानिवासस्थानकुलाद्यनुरूपं वेषं कुर्यात्, उचितवेषादावपि प्रमाणनैयत्वं कार्यम्, एवं दन्तकाष्ठाऽभ्यङ्गतैलोद्वर्त्तनमज्जनवस्त्रविलेपनाऽऽभरणपुष्पफलधूपा