________________
૨૧૩
धर्भसंग्रह भाग-3 | द्वितीय मधिकार | Rels-४८ मन्वयार्थ :
बन्धनात्=iUtथी, योजनात् योनथी, दानात् हानथी, गर्भतो=clथी, तथा सने, भावतः=भावथी, कृतेच्छापरिमाणस्य-शयेत छ।परिमारावास श्रावने, पञ्चापि viय ५, ह्यमी==मसर पांय ५ मा मतिया, न न्याय्याः से44L GAD नथी. ॥४८॥ खोजार्थ :
બંધનથી, યોજનથી, દાનથી, ગર્ભથી અને ભાવથી કરાયેલ ઈચ્છાપરિમાણવાળા શ્રાવકને પાંચ પણ આ અતિચારો સેવવા ઉચિત નથી. II૪૮ાાં टी :
'बन्धनात्' 'योजनात्' 'दानात्' 'गर्भतः' 'भावतः' 'अमी' गृहीतसङ्ख्यातिक्रमाः ‘पञ्चापि' पञ्चसङ्ख्याका अपि ‘कृतेच्छापरिमाणस्य' प्रतिपनपञ्चमव्रतस्य श्रावकस्य 'न न्याय्याः' न घटमाना व्रतमालिन्यहेतुत्वाद् ।
अयं भावः-न साक्षात्सङ्ख्यातिक्रमाः, किंतु व्रतसापेक्षस्य बन्धनादिभिः, पञ्चभिर्हेतुभिः स्वबुद्ध्या व्रतभङ्गमकुर्वत एवातिचारा भवन्ति बन्धनादयश्च यथासङ्ख्येन धनधान्यादीनां परिग्रहविषयाणां सम्बध्यते ।
तत्र धन-धान्यस्य बन्धनात्सङ्ख्यातिक्रमो, यथा कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं च ददाति, तच्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृह्णतः धनादिविक्रये वा कृते ग्रहीष्यामीतिभावनया बन्धनात् नियन्त्रणात्, रज्ज्वादिसंयमनात् सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य तद्गेह एव स्थापयतोऽतीचारः १ ।
तथा क्षेत्रवास्तुनो योजनात्' क्षेत्रवास्त्वन्तरमीलनाद् गृहीतसङ्ख्यातिक्रमोऽतिचारो भवति, तथाहिकिलैकमेव क्षेत्रं वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद्गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृतिभित्त्याद्यपनयने च तत्तत्र योजयतो व्रतसापेक्षत्वात्कथञ्चिद्विरतिबाधनाच्चातिचारः २ ।
तथा रूप्यसुवर्णस्य 'दानात्' वितरणात्, गृहीतसङ्ख्याया अतिक्रमः, यथा केनापि चतुर्मासाद्यवधिना रूप्यादिसङ्ख्याविहिता, तेन च तुष्टराजादेः सकाशात्तदधिकं तल्लब्धम्, तच्चान्यस्मै व्रतभङ्गभयाद्ददाति पूर्णेऽवधौ ग्रहीष्यामीतिभावनयेति व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाच्चातिचार इति ३ । गोमनुष्यादेर्गर्भतः सङ्ख्यातिक्रमो यथा-किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं