________________
૧૯૫
धर्मसंग्रह लाग-3 /द्वितीय अधिकार | Is-४५
तथा मीयते अनेनेति मान-कुडवादि पलादि हस्तादि वा, तस्य विप्लवो विपर्यासः अन्यथाकरणं हीनाधिकत्वमितियावत्, हीनमानेन ददाति अधिकमानेन च गृह्णातीत्ययमपि तत्त्वतश्चौर एव, यदाह -
"लौल्येन किञ्चित्कलया च किञ्चिन्मापेन किञ्चित्तुला च किञ्चित् । किञ्चिच्च किञ्चिच्च समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति ।।१।। अधीते यत्किञ्चित्तदपि मुषितुं ग्राहकजनं, मृदु ब्रूते यद्वा तदपि विवशीकर्तुमपरम् । प्रदत्ते यत्किञ्चित्तदपि समुपादातुमधिकं, प्रपञ्चोऽयं वृत्तेरहह गहनः कोऽपि वणिजाम्? ।।२।।" नचैवं श्रावकस्य युज्यत इति तृतीयोऽतिचारः ३ ।
तथा द्विषोः-विरुद्धयो राज्ञोरिति गम्यम्, राज्यं नियमितभूमिः कटकं वा, तत्र गतिः गमनं द्विभाज्यगतिः, राज्ञाऽननुज्ञाते गमनमित्यर्थः । द्विड्राज्यगमनस्य यद्यपि स्वस्वामिनाऽननुज्ञातस्य "सामी जीवादत्तं, तित्थयरेणं तहेवय गुरूहिं" [नवपदप्रकरणे गा. ३८] इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेनाऽदत्तादानरूपत्वाद् व्रतभङ्ग एव तथापि 'द्विड्राज्यगतिं कुर्वता मया वाणिज्यमेव कृतं न चौर्यमि'तिभावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यपदेशाभावादतिचारता, उपलक्षणत्वाद्राजनिषिद्धवस्तुग्रहणमपि तथेति चतुर्थोऽतिचारः ४ । _ 'चः' पुनः प्रतिरूपं सदृशम्, व्रीहीणां पलञ्जिः , घृतस्य वसा, तैलस्य मूत्रम्, हिङ्गोः खदिरादिवेष्टश्चणकादिपिष्टं गुन्दादि वा, कुङ्कुमस्य कृत्रिमं तत्, कुसुम्भादि वा, मजिष्टादेश्चित्रकादि, जात्यकर्पूरमणिमौक्तिकसुवर्णरूप्यादीनां कृत्रिमतत्तदादि, तेन प्रतिरूपेण ‘क्रिया' व्यवहारः, व्रीह्यादिषु पलञ्ज्यादि प्रक्षिप्य तत्तद्विक्रीणीते, यद्वाऽपहतानां गवादीनां सशृङ्गाणामग्निपक्वकालिङ्गीफलस्वेदादिना शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि विधायान्यविधत्वमिव तेषामापाद्य सुखेन धारणविक्रयादि करोतीति पञ्चमः ५ ।।
मानविप्लवः प्रतिरूपक्रिया च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं खात्रखननादिकमेव चौर्यं प्रसिद्धं, मया तु वणिक्कलैव कृतेतिभावनया व्रतरक्षणोद्यतत्वादतिचार इति । .
अथवा स्तेनाहतग्रहादयः पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसात्कारादिनाऽतिक्रमादिना वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते, न चैते राजसेवकादीनां न संभवन्ति तथाहिआद्ययोः स्पष्ट एव तेषां सम्भवः, द्विड्राज्यगतिस्तु यदा सामन्तादिः कश्चित्स्वस्वामिनो वृत्तिमुपजीवति, तद्विरुद्धस्य च सहायो भवति, तदा तस्यातिचारो भवति, मानविप्लवः प्रतिरूपक्रिया च यदा राजा भाण्डागारे मानान्यत्वं द्रव्याणां विनिमयं च कारयति तदा राज्ञोऽप्यतिचारो भवति ।।४५।।