SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ૯૨ धर्भसंग्रह भाग-3 / द्वितीय अधिकार | Rोs-30 श्लोजार्थ: દિગ્ગવ્રતના વિષયમાં ગૃહીત પરિમાણનું જે સ્વલ્પકાલ સંક્ષેપણ તે દેશાવગાસિકવ્રત જાણવું. 13८॥ टीका: 'दिग्व्रते' प्रथमे गुणव्रते 'गृहीतस्य परिमाणस्य' यावज्जीवं संवत्सरं चतुर्मासीं वा यावद् दशदिक्षु योजनशताधवधिकसङ्कल्पितगमनादेरित्यर्थस्तस्य 'यत्' 'संक्षेपणं' सङ्कोचनं गृहशय्यास्थानादेः परतो निषेधरूपम्, कियत्कालमित्याह 'स्वल्पकालं' मुहूर्त्तप्रहरदिनाहोरात्रादि यावत्, यतः “एगमुहुत्तं दिवस, राइं पंचाहमेव पक्खं वा । - वयमिह धारेह दढं, जावइअं उच्छहे कालं ।।१।।" [सम्बोधप्र. श्रा. १२०] तद्देशावकाशिकं नाम व्रतं ज्ञेयम्, देशेदिग्व्रतगृहीतपरिमाणस्य विभागेऽवकाशः=अवस्थानं देशावकाशः, सोऽत्रास्तीति 'अतोऽनेकस्वराद्' [श्रीसि० ७-२-६] इतीके देशावकाशिकम्, यतः सूत्रम्___ “दिसिवयगहिअस्स दिसापरिमाणस्स पइदिणपरिमाणकरणं देसावगासिअं ।" ति । [प्रत्याख्यानावश्यके सू. १०, हारिभद्री वृत्तिः प. ८९४] __दिग्व्रतसक्षेपकरणम् अणुव्रतादिसक्षेपकरणस्याप्युपलक्षणम्, एषामपि सक्षेपस्यावश्यं कर्त्तव्यत्वात् प्रतिव्रतं च सक्षेपकरणस्य भिन्नव्रतत्वे द्वादश व्रतानीतिसङ्ख्याविरोधः स्यादिति सर्वव्रतसंक्षेपरूपमिदं व्रतमिति व्यवस्थितम्, अत एव सम्प्रति श्रावकाः प्रत्यहमेतद्वतस्पर्शनाय पूर्वं सप्तमव्रते ये यावज्जीवं गृहीताश्चतुर्दश नियमास्तानेव प्रातः संक्षिप्य गृह्णन्ति संकोचयन्ति च सायं प्रत्याख्यानप्रान्ते 'देसावगासि पच्चक्खामी त्यादिना, गुरुसमक्षं तव्रतं च प्रतिपद्यन्ते, उक्तं च“देसावगासिअं पुण, दिसिपरिमाणस्स निच्चसंखेवो । अहवा सव्ववयाणं, संखेवो पइदिणं जो उ ।।१।।" [सम्बोधप्र. श्रा. १२२] स्वापाद्यवसरे च विशेषतः सर्वव्रतसंक्षेपरूपमिदं ग्रन्थिसहितादिना स्वीकार्यम्, उक्तं च दिनकृत्ये"पाणिवहमुसादत्तं, मेहुणदिणलाभणत्थदंडं च । अंगीकयं च मुत्तुं, सव्वं उवभोगपरिभोगं ।।१।। गिहि(ह)मज्झं मुत्तूणं, दिसिगमणं मुत्तु मसगजूआई । वयकाएहिं न करे, न कारवे गंठिसहिएणं ।।२।।" [श्राद्धदिनकृत्ये गा. ३००-१] दिणलाभत्ति-विद्यमानः परिग्रहो दिनलाभश्च प्रातर्न नियमित इदानीं तु तमपि नियच्छामीत्यर्थः । 'वयकाएहिं' ति मनसो निरोद्धमशक्यत्वाद्वाक्कायाभ्यां न करोमि न कारयामीत्यर्थः ।
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy