________________
૧૨
ધર્મ સંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | બ્લોક-૨૨
सागरोपमकोटीनां, कोट्यस्त्रिंशत्परा स्थितिः । . विंशतिर्गोत्रनाम्नोश्च, मोहनीयस्य सप्ततिः ।।२।। ततो गिरिसरिद्ग्रावघोलनान्यायतः स्वयम् । एकाब्धिकोटिकोट्यूना, प्रत्येकं क्षीयते स्थितिः ।।३।। शेषाब्धिकोटिकोट्यन्तः, स्थितौ सकलजन्मिनः । यथाप्रवृत्तिकरणाद् ग्रन्थिदेशं समियाति ।।४।। रागद्वेषपरीणामो, दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः, काष्ठादेरिव सर्वदा ।।५।। ग्रन्थिदेशं तु संप्राप्ता, रागादिप्रेरिताः पुनः । उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि च ।।६।। तेषां मध्ये तु ये भव्या, भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणे कृते ।।७।। अतिक्रामन्ति सहसा, तं ग्रन्थिं दुरतिक्रमम् । अतिक्रान्तमहाऽध्वानो, घट्टभूमिमिवाध्वगाः ।।८।। अथानिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलं कुर्युवेदनीयं यदग्रतः ।।९।। आन्तर्मुहूर्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं, सम्यक्श्रद्धानमुच्यते ।।१०।। गुरूपदेशमालम्ब्य, सर्वेषामपि देहिनाम् । यत्तु सम्यक्श्रद्धानं तत्, स्यादधिगमजं परम् ।।११।। यमप्रशमजीवातुर्बीजं ज्ञानचरित्रयोः । हेतुस्तपःश्रुतादीनां, सद्दर्शनमुदीरितम् ।।१२।। श्लाघ्यं हि चरणज्ञानविमुक्तमपि दर्शनम् । न पुनर्ज्ञानचारित्रे, मिथ्यात्वविषदूषिते ।।१३।। ज्ञानचारित्रहीनोऽपि, श्रूयते श्रेणिकः किल । सम्यग्दर्शनमाहात्म्यात्, तीर्थकृत्त्वं प्रपत्स्यते ।।१४।।" [१।१७ वृत्तौ] इति ।।