________________
૨૭૨
" गावी महिसी उट्टी, अयएलग आस आसतरगा य ।
घोडग गद्दह हत्थी, चउप्पयं होइ दसहा उ ।। १ ।। ” [दशवैकालिकनिर्युक्ति २५७, सम्बोधप्र. श्राद्ध.
५९] ·
एते प्रतीताः, नवरमस्यां वाह्लीकादिदेशोत्पन्ना जात्या, अश्वतरा वेसराः, अजात्या घोटकाः ।
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૯
नानाविधमपि कुप्यमेकमेव यथा
" नाणाविहोवगरणं, णेगविहं कुप्पलक्खणं होइ ।
एसो अत्थो भणिओ, छव्विह चउसट्टिभेओ उ ।।१।। " [ दशवे. नियुक्ति गा. २५८, सम्बोधप्र. श्राद्ध. ६०]
-
चतुःषष्टिभेदोऽप्येष नवविधपरिग्रहेऽन्तर्भवतीति न कोऽपि विरोधः ।
पुनः कीदृशस्य तस्य ? 'अमितस्य' परिमाणरहितस्य 'परिवर्जनात् ' त्यागात् त्यागनिमित्तभूतेनेत्यर्थः । 'इच्छायाः' अभिलाषस्य यत्परिमाणमियत्ता तस्य कृतिः करणम्, तां पञ्चमं 'व्रतम्' अधिकारादणुव्रतं 'जगदुः ' ऊचुर्जिना इति सण्टङ्कः ।
इदमत्र तात्पर्यम्-परिग्रहविरतिर्द्विधा, सर्वतो देशतश्च तत्र सर्वथा सर्वभावेषु मूर्छात्यागः सर्वतः, तदितरद्देशतः । तत्र श्रावकाणां सर्वतः तत्प्रतिपत्तेरशक्तौ देशतस्तामिच्छापरिमाणरूपां प्रतिपद्यते, यतः सूत्रम्
“अपरिमिअपरिग्गहं समणोवासओं पच्चक्खाइ, इच्छापरिमाणं उवसंपज्जइ, से अ परिग्गहे दुविहे पण्णत्ते, तंजहा-सचित्तपरिग्गहे अचित्तपरिग्गहे अ" [ प्रत्याख्यानावश्यक सू. ५ / हारिभद्रीवृत्तिः प. ८२५ ] ति ।
ननु गृहे स्वपद्रव्येऽपि सति परिग्रहपरिमाणे तु द्रव्यसहस्त्रलक्षादिप्रतिपत्त्या इच्छावृद्धिसम्भवात् को नाम गुणः इति चेन्मैवम्,
इच्छावृद्धिस्तु संसारिणां सर्वदा विद्यमानैव । यतो नमिराजर्षिवचनमिन्द्रं प्रति,
“सुवण्णरूप्पस्स य पव्वया भवे, सिया हु केलाससमा असंखया ।
नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अनंतया ||१|| " [ उत्तराध्ययन ९ / ४८ ] एवं चेच्छाया अनन्तत्वे तदियत्ताकरणं महते गुणाय । यतः -
"जह जह अप्पो लोहो, जह जह अप्पो परिग्गहारंभो ।
तह तह सुहं पवट्टइ, धम्मस्स य होइ संसिद्धी ॥ १ ॥ । [ सम्बोधप्र. श्राद्ध. ६२]
तस्मादिच्छाप्रसरं निरुध्य संतोषे यतितव्यम्, सुखस्य संतोषमूलत्वात् । यदाह
-