________________
૨૪૭
धर्मसंग्रह भाग-१ / प्रथम अधिकार | els-२० स्वभावतोऽपापकर्मा ३ । लोकप्रियः सदा सदाचारचारी ४ । अक्रूरोऽक्लिष्टचित्तः ५ । भीरुरैहिकामुष्पिकापायभीलुकः ६ । अशठः परावञ्चकः ७ । सुदाक्षिण्यः प्रार्थनाभङ्गभीरुः ८ । लज्जालुरकार्यवर्जकः ९ । दयालुः सत्त्वानुकम्पकः १० । मध्यस्थो रागद्वेषरहितोऽत एवासौ सोमदृष्टियथावस्थितविचारवित्त्वात्, इह पदद्वयेनाप्येक एव गुणः ११ । गुणरागी गुणिपक्षपातकृत् १२ । सती धर्मकथाऽभीष्टा यस्य स सत्कथः १३ । सुपक्षयुक्तः सुशीलानुकूलपरिवारोपेतः १४ । सुदीर्घदर्शी सुपर्यालोचितपरिणामसुन्दरकार्यकारी १५ । विशेषज्ञोऽपक्षपातित्वेन गुणदोषविशेषवेदी १६ । वृद्धानुगः परिणतमतिपुरुषसेवकः १७ । विनीतो गुणाधिकेषु गौरवकृत् १८ । कृतज्ञः परोपकाराविस्मारकः १९ । परहितार्थकारी निरीहः सन् परार्थकृत, सुदाक्षिण्यो हि अभ्यर्थित एव परोपकारं करोत्ययं पुनः स्वत एव परहितरत इति विशेषः २० । ... तह चेवत्ति तथाशब्दः प्रकारार्थश्चः समुच्चये, एवोऽवधारणे । ततश्च यथैते विंशतिस्तथैव तेन प्रकारेण, लब्धलक्ष्यश्च धर्माधिकारीति पदयोगः, पदार्थस्तु लब्ध इव-प्राप्त इव, लक्ष्यो लक्षणीयो धर्मानुष्ठानव्यवहारो येन स लब्धलक्ष्यः सुशिक्षणीयः २१ । इत्येकविंशत्या गुणैः संपन्नो धर्मरत्नयोग्य इति योजितमेव । . अत्राह-ननु किमेकान्तेनैतावद्गुणसंपन्ना धर्माधिकारिण उतापवादोऽप्यस्तीति प्रश्ने सत्याह"पायद्धगुणविहीणा, एएसि मज्झिमाऽवरा णेआ । इत्तो परेण हीणा, दरिद्दपाया मुणेअव्वा ।।१।।" [धर्मरत्न प्र० गा. ३०]
इहाधिकारिण उत्तमा मध्यमा हीनाश्चेति त्रिधा, तत्रोत्तमाः संपूर्णगुणा एव पादश्चतुर्थांशस्तत्प्रमाणैर्गुणैर्ये विहीनास्ते मध्यमाः, अर्द्धप्रमाणगुणहीनाश्च जघन्याः, अर्धादप्यधिक_ना नरा दरिद्रा धर्मरत्नस्यायोग्या इत्यर्थः ।
अत्र च यद्यपि श्रावकयतिधर्मभेदाद्धर्मो द्विधा, श्रावकधर्मोऽपि अविरतविरतश्रावकधर्मभेदाद्विधा । तत्राविरतश्रावकधर्मस्य पूर्वसूरिभिः“तत्थहिगारी अत्थी, समत्थओ जो न सुत्तपडिकुट्ठो । अत्थी उ जो विणीओ, समुट्ठिओ पुच्छमाणो अ ।।१।।" [श्रावकधर्मविधिः गा.४] इत्यादिनाऽधिकारी निरूपितः, विरतश्रावकधर्मस्य"संपत्तदंसणाई, पइदिअहं जइजणा सुणेइ अ । सामायारिं परमं, जो खलु तं सावयं बिंति ।।१।।" तथा