________________
न ।
धर्मसंग्रह मान-१ / PRTs-१-२ यद्वा धर्मस्य संग्रहो यत्र स धर्मसंग्रह इति व्युत्पत्तिस्तं ग्रथ्नामि रचयामीति क्रियाकारकसण्टकः, किं कृत्वा? विशेषेण ईरयति क्षिपति तत्तत्कर्माणीति वीरः, "विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः" । इति लक्षणनिरुक्ताद्वा वीरः, महाँश्चासावितरवीरापेक्षया वीरश्च महावीरः, वीरत्वं च दानयुद्धधर्मभेदात्रिधा । यदाहुः
"कृत्वा हाटककोटिभिर्जगदसद्दारिद्र्यमुद्राकथं, हत्वा गर्भशयानपि स्फुरदरीन् मोहादिवशोद्भवान् । तप्त्वा दुस्तपमस्पृहेण मनसा कैवल्यहेतुं तपस्, त्रेधा वीरयशो दधद्विजयतां वीरस्त्रिलोकी गुरुः" ।।१।। तं प्रणम्य प्रकर्षण भावपूर्वकं मनोवाक्कायैर्नत्वेति सम्बन्धः । शेषाणि महावीरपदविशेषणानि, तैस्तु सद्भूतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते, तत्र पूर्वार्धन पूजातिशयः तत्त्वज्ञमित्यनेन ज्ञानातिशयः, तत्त्वं सकलपर्यायोपेतसकलवस्तुस्वरूपं जानातीति व्युत्पत्तेः । तत्त्वदेष्टारमित्यनेन तु वचनातिशयः, तत्त्वं दिशतीति व्युत्पत्तिसिद्धेः, जिनोत्तममित्यनेन च अपायापगमातिशयः, अपायभूता हि रागादयस्तदपगमेन भगवतः स्वरूपलाभः, स च जयति रागद्वेषमोहरूपान्तरङ्गान् रिपूनिति शब्दार्थात्सिद्धः । तदेवं चतुरतिशयप्रतिपादनद्वारेण भगवतो महावीरस्य पारमार्थिकी स्तुतिरभिहितेति भाव इति श्लोकयुग्मार्थः ।।१-२॥ सार्थ :
अहं ..... श्लोकयुग्मार्थः ।।९ श्रुतसमुद्रथी सने संपायथी गुरुपरंपराथी, सते. स्वानुभवथी स्पीय શ્રત-ચિત્તાના ઉત્તરમાં ઉત્પન્ન થયેલા ભાવનાજ્ઞાનથી ધર્મને જાણીને નિર્ણય કરીને, સિદ્ધાંતના સાર એવા આગમતા સારભૂત એવા, ઉત્તમ ધર્મસંગ્રહની=ધર્મસંગ્રહ નામક શાસ્ત્રની રચના કરું છું એ પ્રમાણે ક્રિયાના કારક સાથે સંબંધ છે. ધર્મસંગ્રહ ઉત્તમ કેમ છે ? તેમાં હેતુ કહે છે – લોકોત્તર ધર્મનો નિરૂપક હોવાને કારણે ધર્મસંગ્રહ ઉત્તમ છે. ધર્મસંગ્રહ શબ્દની વ્યુત્પત્તિ બતાવીને અર્થ સ્પષ્ટ કરે છે –
त्यां=ग्रंथमi, हेना 43 संगीत थाय संग्रह में प्रमाए "पुंनाम्नि" सूत्रथी ४२९मा 'घ' प्रत्यय छे.