________________
૧૭૪
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-૧૯ પ્રાપ્તિ કરાવનાર પ્રમાદ છે. આ પ્રકારનો ઉપદેશ આપવાથી કલ્યાણના અર્થે પ્રવૃત્ત થયેલ યોગ્ય શ્રોતા સ્વશક્તિ અનુસાર પંચાચારના પાલન માટે તત્પર થયા પછી અપ્રમાદભાવથી પંચાચારના પાલન માટે उधत. थाय छे.. टीs:
अपायानेव व्यक्तीकुर्वन्नाह - "नारकदुःखोपवर्णनमिति" [सू. ८२] नरके भवा नारकास्तेषामुपलक्षणत्वात्तिर्यगादीनां च दुःखान्यशर्माणि तेषामुपवर्णनं विधेयम्, यथा"तीक्ष्णैरसिभिर्दीप्तैः कुन्तैर्विषमैः परश्वधैश्चक्रैः । परशुत्रिशूलतोमरमुद्गरवासी मुसण्ढीभिः ।।१।। संभिन्नतालशिरसश्छिन्नभुजाश्छिन्नकर्णनासोष्ठाः । भिन्नहृदयोदरान्त्रा, भिन्नाक्षिपुटाः सुदुःखार्ताः।।२।। निपतन्त उत्पतन्तो, विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं, नैरयिकाः कर्मपटलान्धाः ।।३।। क्षुत्तृहिमान्युष्णभयादितानां, पराभियोगव्यसनातुराणाम् । अहो तिरश्चामतिदुःखितानां, सुखानुषङ्गः किल वार्त्तमेतत् ।।४।। मानुष्यकेऽपि दारिद्र्यरोगदौर्भाग्यशोकमुख्यानि । जातिकुलाऽवयवादिन्यूनत्वं चाश्नुते प्राणी ।।५।। देवेषु च्यवनवियोगदुःखितेषु, क्रोधेामदमदनातितापितेषु । आर्यानस्तदिह विचार्य संगिरन्तां, यत्सौख्यं किमपि निवेदनीयमस्ति" ।।६।। इति । तथा “दुष्कुलजन्मप्रशस्तिरिति” [सू० ८३]
दुष्कुलेषु शकयवनशबरबर्बरादिसंबन्धिषु यज्जन्म असदाचाराणां प्राणिनां प्रादुर्भावस्तस्य प्रशस्तिः प्रज्ञापना कार्या ।
तत्र चोत्पन्नानां किमित्याह - “दुःखपरम्परानिवेदनमिति" [सू० ८४]
दुःखानां शारीरमानसाशर्मलक्षणानां या परम्परा प्रवाहस्तस्या निवेदनं-प्ररूपणं यथा-असदाचारपारवश्याज्जीवा दुष्कुलेषूत्पद्यन्ते । तत्र चासुन्दरवर्णरसगन्धस्पर्शशरीरभाजां तेषां दुःखनिराकरणनिबन्धनस्य धर्मस्य स्वप्नेऽप्यनुपलम्भाद्धिंसाऽनृतस्तेयाशुद्धकर्मप्रवणानां नरकादिफलः पापकर्मोपचय एव संपद्यते, तदभिभूतानाम् इह परत्र