________________
૧૪૫
धर्मसंग्रह भाग-१ | प्रथम मधिकार | RIS-१८ "भूयो भूय उपदेश इति" [सू० ६५]
भूयो भूयः पुनः पुनरुपदिश्यत इत्युपदेशः उपदेष्टुमिष्टः वस्तुविषयः कथञ्चिदनवगमे सति कार्यः, किं न क्रियते दृढसन्निपातरोगिणां पुनः पुनः क्रिया तिक्तादिक्वाथपानोपचार इति ।
तथा “बोधे प्रज्ञोपवर्णनमिति” [सू० ६६]
बोधे सकृदुपदेशेन भूयो भूय उपदेशेन वोपदिष्टवस्तुनः परिज्ञाने तस्य श्रोतुः प्रज्ञोपवर्णनं बुद्धिप्रशंसनं यथानालघुकर्माणः प्राणिन एवंविधसूक्ष्मार्थबोद्धारो भवन्तीति ।
तथा “तन्त्रावतारइति" [सू० ६७] तन्त्रे आगमे, अवतारः प्रवेशः आगमबहुमानोत्पादनद्वारेण तस्य विधेयः, आगमबहुमानश्चैवमुत्पादनीयः"परलोकविधौ शास्त्रात्प्रायो नानन्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ।।१।। उपदेशं विनाप्यर्थकामौ प्रति पटुर्जनः ।। धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ।।२।। अर्थादावविधानेऽपि, तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः, क्रियोदाहरणात्परः ।।३।। तस्मात् सदैव धर्मार्थी, शास्त्रयत्नः प्रशस्यते । लोके मोहान्धकारेऽस्मिन्, शास्त्रालोकः प्रवर्तकः" ।।४।। [योगबिन्दु, गा. २२१-४] 'शास्त्रयत्नः' इति शास्त्रे यत्नो यस्येति समासः । "पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ।।५।। न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियापि हि । अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ।।६।। यः श्राद्धो मन्यते मान्यानहंकारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ।।७।। यस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वात्, न प्रशंसास्पदं सताम् ।।८।। मलिनस्य यथाऽत्यन्तम्, जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य, तथा शास्त्रं विदुर्बुधाः ।।९।।