________________
૮૨
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | બ્લોક-૫ થી ૧૪
"अन्ने भणंति तिविहं, सययविसयभावजोगओ णवरं । धम्ममि अणुट्ठाणं, जहुत्तरपहाणरूवं तु ।।१।। एअं च ण जुत्तिखमं, णिच्छयणयजोगओ जओ विसए । भावेण य परिहीणं, धम्माणुट्ठाणमो किह णु ।।२।। ववहारओ उ जुज्जइ, तहा तहा अपुणबंधगाईसुत्ति ।" [उपदेशपद गा. १४९, १५०-१]
एतदर्थो यथा-“अन्ये आचार्या ब्रुवते त्रिविधं त्रिप्रकारं, सततविषयभावयोगतः योगशब्दस्य प्रत्येकमभिसंबन्धात् सततादिपदानां सतताभ्यासादौ लाक्षणिकत्वात्सतताभ्यासविषयाभ्यासभावाभ्यासयोगादित्यर्थः, नवरं केवलम्, धर्मेऽनुष्ठानं यथोत्तरं प्रधानरूपं तुरेवकारार्थः यद्यदुत्तरं तदेव ततः प्रधानमित्यर्थः, तत्र सतताभ्यासो नित्यमेव मातापितृविनयादिवृत्तिः, विषयाभ्यासो मोक्षमार्गनायकेऽर्हल्लक्षणे पौनःपुन्येन पूजनादिप्रवृत्तिः, भावाभ्यासो भावानां सम्यग्दर्शनादीनां भवोद्वेगेन भूयो भूयः परिशीलनम् ।।१।।
एतच्च द्विविधमनुष्ठानम्, न युक्तिक्षम नोपपत्तिसहम्, निश्चयनययोगेन=निश्चयनयाभिप्रायेण, यतो मातापित्रादिविनयस्वभावे सतताभ्यासे सम्यग्दर्शनाद्यनाराधनारूपे धर्मानुष्ठानं दुरापास्तमेव, विषय इत्यनन्तरम् अपिर्गम्यः, विषयेऽपि अर्हदादिपूजालक्षणे विषयाभ्यासेऽपि, भावेन भववैराग्यादिना परिहीणं धर्मानुष्ठानम्, कथं नु ? न कथंचिदित्यर्थः, ओकारः प्राकृतत्वात् परमार्थोपयोगरूपत्वाद्धर्मानुष्ठानस्य, निश्चयनयमते भावाभ्यास एव धर्मानुष्ठानं नान्यद्वयमिति निगर्वः ।।२।।
व्यवहारतस्तु व्यवहारनयादेशात्तु, युज्यते द्वयमपि, तथा २ तेन २ प्रकारेणापुनर्बन्धकादिषु अपुनर्बन्धकप्रभृतिषु । तत्रापुनर्बन्धकः पापं न तीव्रभावात्करोतीत्यायुक्तलक्षणः, आदिशब्दादपुनर्बन्धकस्यैव विशिष्टोत्तरावस्थाविशेषभाजौ मार्गाभिमुखमार्गपतितौ अविरतसम्यग्दृष्ट्यादयश्च गृह्यन्त" इति ।
ननु तथापि धर्मसंग्रहिण्यां निश्चयनयमतेन शैलेशीचरमसमय एव धर्म उक्तः, तत्पूर्वसमयेषु तु तत्साधनस्यैव सम्भवः
“सो उभयक्खयहेऊ सीलेसीचरमसमयभावी जो । सेसो पुण णिच्छयओ, तस्सेव पसाहगो भणिउ ।।" [गा. २६] त्ति वचनात् ।
अत्र तु निश्चयतो धर्मानुष्ठानसंभवश्चाप्रमत्तसंयतानामेवेति कथं न विरोधः? इति चेन्न, धर्मसंग्रहिण्यां धर्मस्यैवाभिधित्सितत्वेन तत्र धर्मपदव्युत्पत्तिनिमित्तग्राहकैवंभूतरूपनिश्चयनयस्य शैलेशीचरमसमय एव प्रवृत्तिसंभवात् अत्र तु धर्मानुष्ठानपदव्युत्पत्तिनिमित्तग्राहकैवंभूतरूपनिश्चयनयस्याप्रमत्तसंयत एव प्रवृत्तिसंभवेन विरोधलेशस्याप्यनवकाशात् । हन्तैवं निरुपचरितो भावाभ्यासोऽप्रमत्तसंयतस्यैव, प्रमत्तसंयतदेशविरताविरतसम्यग्दृशां त्वापेक्षिकत्वेनौपचारिक एव प्राप्त इत्यपुनर्बन्धकस्यैवौपचारिक इति कथं युज्यते? इति चेद्, यथा पर्यवनयव्युत्क्रान्तार्थग्राही द्रव्योपयोगः परमाणावेवापश्चिम