________________
भाषारस्य 45२ भाग-२/ रत5-४ | गाथा-७८
गाथा:
अभिगहिया पडिवक्खो, संसयकरणी य सा मुणेयव्वा । जत्थ अणेगत्थपयं सोऊण होइ संदेहो ।।७८।। .
छाया:
अभिगृहीता प्रतिपक्षः संशयकरणी च सा मुणि(ज्ञा)तव्या ।
यत्रानेकार्थपदं श्रुत्वा भवति सन्देहः ।।७८ ।। मन्ययार्थ :
अभिगहिया समितभाषा, पडिवक्खो प्रतिपक्ष छ, यसने, संसयकरणी संशयरी, सात मुणेयव्वा=gLवी, जत्थ=ठेमi, अणेगत्थपयंसनेसर्थपहने, सोऊण सामजान, संदेहो=सं=श्रोता संदेड, होइ=थाय छे. ॥७८॥ गाथार्थ :
અભિગૃહીતભાષા પ્રતિપક્ષ છે અને સંશયકરણી તે જાણવી, જેમાં અનેકાર્થપદને સાંભળીને શ્રોતાને સંદેહ થાય છે. ll૭૮l टीडा :
अभिगृहीता प्रतिपक्षः विपरीता, प्रस्तावादनभिगृहीताया इति लभ्यते, तथा चानेकेषु कार्येषु पृष्टेषु यदेकतरस्याऽवधारणम् ‘इदमिदानी कर्तव्यमिति साऽभिगृहीता, अथवा घट इत्यादिप्रसिद्धप्रवृत्तिनिमित्तकपदाभिधानं सेति' द्रष्टव्यम् ।
उक्ताऽभिगृहीता ९ । अथ संशयकरणीमाह - संशयकरणी च सा मुणियब्वा=ज्ञातव्या, यत्र-यस्यां, अनेकार्थ बह्वर्थाभिधायकं, पदं श्रुत्वा श्रोतुः सन्देहो भवति । तथाहि-सैन्धवमानयेत्युक्ते सैन्धवपदस्य लवणघोटकादिष्वनेकेष्वर्थेषु शक्तिग्रहादनेकार्थपदजन्यशाब्दबोधे प्रकरणादीनां विशिष्य हेतुत्वेन तद्विरहे शाब्दबोधविरहेऽपि भवति वक्त्रभिप्रायसन्देहात् 'लवणानयनं घोटकानयनं वा मम कर्तव्यं' इति मानसः सन्देहः, परोक्षसंशयाभ्युपगमे तात्पर्यनिश्चयस्य प्रतिनियतार्थनिश्चयहेतुत्वेन तत्संशये शाब्द एव वा स इतीयं संशयकरणी।
अनेकार्थपदं श्रुत्वेति प्रायिकं, संशयहेतुत्वमात्रमेव लक्षणम्, अतः स्थाणुर्वा पुरुषो वेति भाषाऽपि प्रतियोगिपदाभ्यां कोटिद्वयं वाकारेण च विरोधमुपस्थाप्य संशयं जनयन्ती तादृश्येवेति ध्येयम् ।।७।।