________________
૧૪૬
ભાષારહસ્ય પ્રકરણ ભાગ-૧ | બક-૧ | ગાથા-૩૨ अनार माषा, यसले एस-1, बलाया सिया Mast श्वेत छ, त्तिति प्रमाणोनो प्रयोग, (मावसत्य छे.) ॥३२॥ गाथार्थ:
ભાવસત્યભાષા તે છે જે સદ્ અભિપ્રાયપૂર્વક જ કહેવાય છે. જે પ્રમાણે પરમાર્થ કુંભ છે=ભાવનિક્ષેપાવાળો કુંભ છે તેને કુંભ કહેનાર ભાષા અને આ બલાકા શ્વેત છે એ પ્રમાણેનો પ્રયોગ ભાવસત્ય છે. રૂચા टीs:___सा भवति भावसत्या या सदभिप्रायपूर्वमेवोक्ता, अभिप्रायस्य सत्त्वं च पारमार्थिकभावविषयत्वेन शास्त्रीयव्यवहारनियन्त्रितत्वेन च, अत एवोदाहरणद्वैविध्यमाह, यथा परमार्थः कुम्भः, सिता बलाका चैषेति ।
अत्र प्रथममुदाहरणं पारमार्थिककुम्भबोधनाभिप्रायेण कुम्भपदप्रयोगात्सत्यत्वोपदर्शनार्थम्, द्वितीयं च सत्यपि बलाकायां पञ्चवर्णसंभवे शुक्लवर्णाऽवधारणस्योत्कटशुक्लपरतया तदुपदर्शनार्थम्, न चैवं द्वितीयं व्यवहारसत्य एवान्तर्भाव्यतामिति वाच्यम् तस्य लोकविवक्षाघटितत्वात् । ____ अथ द्वितीयमेवोदाहरणमन्यत्र प्रकृते प्रदर्शितमिति प्रथमोदाहरणप्रदर्शनं स्वच्छन्दमतिविकल्पितमिति चेत् ? न, “भावसच्चं णाम जमहिप्पायतो, जहा घडामाणेहि त्ति अभिप्पायतो घडमाणेहि त्ति भाणियं गावी अभिप्पायेण गावी, अस्सो वा अस्सो भणिओ एवमादि त्ति ।” ( दश अ.७ जि.चू.पृ.२३६) चूर्णिकारवचनात् । ___ अथ बलाकायाः पञ्चवर्णत्वं न युक्तिमत् शुक्लेतररूपस्य शुक्लरूपप्रतिबन्धकत्वात् अन्यथा चित्ररूपोच्छेदात्, शुक्लादौ नीलादिसत्त्वे तत्प्रत्यक्षप्रसङ्गाच्चेति चेत् ? न, शुक्लघटारम्भकपरमाणूनामेव कालान्तरे नीलघटाद्यारम्भकत्वेन (ग्रन्थाग्रं-४०० श्लोक) नियमत एकत्र पञ्चवर्णत्वव्यवस्थितेः, न च शुक्लारम्भका न तदितरारम्भका इति वाच्यम् नियतारम्भमतनिरासात्, अवयवगतशुक्लेतरस्य च न शुक्लप्रतिबन्धकत्वम् मानाभावात्, न च चित्ररूपान्यथानुपपत्तिर्मानम्, नीलपीतादिरूपसमुदायेनैव चित्रव्यवहारोपपत्तावतिरिक्तचित्रे मानाभावादित्यधिक मत्कृतवादमालायाम् ।
शुक्लघटे रूपान्तराप्रत्यक्षत्वं चोत्कटरूपत्वेन योग्यत्वात् परेणाऽप्युद्भूतरूपस्यैव तथात्वोपगमात्, न चावयवगताऽनुत्कटरूपस्याऽवयविन्युत्कटरूपप्रतिबन्धकत्वादुक्तानुपपत्तिः अन्यथा पिशाचेऽप्युत्कटरूपप्रसङ्गादिति वाच्यम्, उत्कटत्वस्य परिणामविशेषप्रयोज्यत्वेन तथाप्रतिबन्धकत्वाकल्पनात् अन्यथा भर्जनकपालस्थानुद्भूतरूपवढेस्तप्ततैलसंसर्गादुद्भूतरूपानुपपत्तिप्रसङ्गादिति दिग् । उत्कटत्वं तादृशबह्ववयवकत्वं न तु जातिरित्यन्ये, तत्त्वमत्रत्यं मत्कृतवादरहस्यादवसेयम् ।।३२।।