________________
ભાષારહસ્ય પ્રકરણ ભાગ-૧ | સ્તબક-૧ | ગાથા-૧૯
मन्वयार्थ :
आराहणं पडुच्च विमानाने साश्रयीने =Guयोगपूर्व बोलायली भाषाने साश्रयीने तो यार ना विभागमा परिभाषा ४ छ परंतु माराधनाने साश्रयीने , चउविहविभागे=यार प्रारना विभागमा परिभासा चेव परिभाषा ४ छ, जंतु २४थी, सच्चंतब्भावे च्चिय-सत्यना संतमविमा ४, चउण्ह आराहगत्तं यारे भाषा, साराघ84j छ. ||१८ गाथार्थ :
આરાધનાને આશ્રયીને પણ ઉપયોગપૂર્વક બોલાયેલી ભાષાને આશ્રયીને તો ચાર પ્રકારના વિભાગમાં પરિભાષા જ છે પરંતુ આરાધનાને આશ્રયીને પણ, ચાર પ્રકારના વિભાગમાં પરિભાષા જ છે, જે કારણથી સત્યના અંતર્ભાવમાં જ ચારે ભાષાનું આરાધકપણું છે. ll૧૯ll. टी :___ आराधनां प्रतीत्याऽपि चतुर्विधविभागे परिभाषेव, निश्चयतस्त्वाराधकत्वानाराधकत्वाभ्यां च द्विविधैव भाषा, वस्तुतो भाषानिमित्तयोः शुभाशुभसंकल्पयोरेवाराधकत्वं विराधकत्वं वा न तु भाषायाः, अथ मन्दकुमारादीनां करणाऽपटिष्ठतादिना 'अहमेतद् भाषे' इत्यादिज्ञानशून्यानां या भाषा तन्निबन्धनाशुभसंकल्पाभावात्कथं तत्र विकल्पेन भाषोपक्षय इति चेत् न, अनायुक्तपरिणामस्यैव कर्मबन्धनहेतुत्वेन विराधकत्वात् तेन तदुपक्षयात्, समर्थितञ्चेदं 'निच्छयओ सकयं चिय' (अध्या. प.गा. ४८) इत्यादिना महता प्रबन्धेन स्वोपज्ञाध्यात्ममतपरीक्षायामिति नेह प्रतन्यते । ___ अत्रैव हेतुमाह-सत्यान्तर्भाव एव यद्-यस्मात् कारणात्, चतसृणां भाषाणामाराधकत्वम् । अयं भावः “इच्चेयाई भंते! चत्तारि भासज्जायाइं भासमाणे किं आराहए विराहए? गोयमा ! इच्चेयाइं चत्तारि भासज्जाताई आउत्तं भासमाणे आराहए, णो विराहए ।।" (प्र. भा. प. सू. १७४) त्ति प्रज्ञापनासूत्रे सर्वा अपि भाषा आयुक्तं भाषमाणस्याराधकत्वोपदेशात् क्रियाद्वयस्य समानकालीनत्वलाभादौत्सर्गिकहेतुहेतुमद्भावसिद्धिः, अत्र चाऽऽयुक्तमिति पदं सम्यक्प्रवचनमालिन्यादिरक्षणपरतयेत्यर्थकम्, तथा चाऽऽयुक्तं भाष्यमाणाः सर्वा अपि सत्या एवेति पर्यवसितम् ।
अत एव दो न भासिज्ज सव्वसो' (द. अ. ७/गा. १) इत्यस्यापि न विरोधः, अपवादतस्तद्भाषणेऽप्युत्सर्गानपायात् । 'द्वे' इत्यत्रैव धर्मविरोधित्वं विशेषणमित्यन्ये ।
एवमनायुक्तं भाष्यमाणानां सर्वासामपि विराधकत्वेन मृषात्वमेव । तदुक्तं – “तेण परं असंजयअविरयअप्पडिहयअपच्चक्खायपावकम्मे सच्चं भासं भासंतो, मोसं वा, सच्चामोसं वा, असच्चामोसं वा भासं भासमाणे णो आराहए विराहए" त्ति इत्थं चाराधकत्वानाराधकत्वाभ्यामपि सत्यासत्ये द्वे एव भाषे निश्चयतः पर्यवसन्ने इति ।।१९।।