________________
४३८
तत्त्वार्थवार्तिके
[ ५२
साध्यते । द्रव्यत्वस्य द्रव्यमित्यभिधानं कुतः ? स्वत एवेति चेत् ; द्रव्ये कोऽपरितोषः ? अर्थान्तरादिति चेत्; तत्रापि स एव दोषः, द्रव्यत्वाभिधानप्रसङगश्च । कुतो ह्येतत् उभयशब्दवाच्यत्वे द्रव्यत्वस्य तद्योगात् द्रव्ये द्रव्यमित्यभिधानं भवति न द्रव्यत्वमिति । अथ भेदेन व्यपदेश:; यथा यष्टिरस्यास्तीति यष्टिमानिति व्यदिश्यते, एवं द्रव्यत्वमस्यास्तीति द्रव्यत्ववद्रव्यमित्यभिधानं ५ प्रसज्येत न द्रव्यमिति । अथ मतमेतत् - यथा शुक्रगुणयोगात् शुक्लः पटः इति मत्वर्थीयस्य निवृत्तिः, एवमिहापि मत्वर्थीयस्याभाव इति; विषम उपन्यासः । युज्यते तत्र मत्वर्थीयस्याभावः गुणवचनेभ्यो निवृत्तेरन्वाख्यातत्वात् । अनन्वाख्याने वा 'उभयवचनाः शुक्लादयः' इति व्याकरणाभ्युपगमात् । अयं तु द्रव्यत्वशब्दो न गुणवचनः तेन अस्मान्मतोर्निवृत्तिर्दुरुपपादा । किञ्च त्वस्यापि निवृत्तिर्नान्वाख्याता ततो द्रव्यमित्यभिधानं नोपपद्यते ।
१.०
द्रव्य त्वोत्पत्त्यभावश्चोभयथा दोषात् । ५ । द्रव्यस्य भावो द्रव्यत्वमिति त्वस्य चोत्पत्तिर्न प्राप्नोति । कुतः ? उभयथा दोषात् । इदमिह संप्रधार्यम् - असौ भावः द्रव्यस्य आत्मभूतो वा स्यात्, अनात्मभूतो वा ? " यद्यात्मभूतः अनादिपारिणामिकद्रव्यस्य आत्मभवने त्वस्य विधानात्, नान्यद् द्रव्याद् द्रव्यत्वमिति संसर्गवादहानिः । अथ अर्थान्तरभूतः; द्रव्यस्य भावो द्रव्यत्वमिति विग्रहो नोपपद्यते, द्रव्यानात्मभूतत्वात् द्रव्यत्वस्य । न हि घटस्य भाव इति पटे वृत्तिरुपपद्यते ।
१५
किन, द्रव्यस्य भावो द्रव्यत्वमिति यथा अन्यो भावः तथा द्रव्यत्वस्यान्यो भावः स्याद्वा, न वा ? यदि नास्ति; तस्य स्वभावाभावादभावः स्यात् । अथास्ति; तस्मिन्नभिधेये "त्वत्तोत्पत्तेः द्रव्यत्वत्वमिति प्राप्नोति, तथा सति अनवस्था । अथ मतमेतत्-यथा अवैर्मासमिति विगृह्य अविकशब्दादुत्पत्तिर्भवति आधिकमिति, तथा द्रव्यत्वस्य भाव इति विगृह्य द्रव्यशब्दादेव त्वोत्पत्तिर्भवतीति; नैतद्युक्तम्; अर्थान्तरविषयत्वात् । युज्यते अवेर्मांसमविकस्य मांसमिति २० केवलो विग्रहभेदो नार्थभेद इति एकेन विग्रहः अपरस्मादुत्पत्तिरिति । इह तु द्रव्य-द्रव्यत्वशब्दयोः पदार्थान्तरविषयत्वात् विग्रहभेदे अर्थभेद इति नासौ न्यायः कल्पयितुं शक्यः ।
"एकस्यानेकत्र वृत्त्यभावो बहुत्वप्रसङगो वा । ६ । तद्द्रव्यत्वमेकमित्यभ्युपगम्यते तद्वादिभिः । तत्कथमेकं निरवयवम् अनेकत्र पृथिव्यादौ वर्तितुमुत्सहते ? अथ वर्तेत; बहुत्वमेवास्य स्यात् अनेकत्र वृत्तेः रूपादिवत् । आकाशवदेकं सत् अनेकमवगाहत इति चेत्; न; वैषम्यात् । २५ युज्यते महापरिमाणं वियदवगाहते सकलमिति गुणानां तु द्रव्यपदार्थविषयत्वात् कथममहद्द्रव्यत्वं
कृत्स्नं वेवेष्टि । एकत्वसंख्यागुणवदुपचारतो महत्त्वमस्येति चेत्; तदिदमसिद्धेन साध्यते । १३ सिद्धसाध्यव्यवस्थाश्रया हि "कथामार्गाः । उपचरितस्य मुख्यकार्यसाधनाशक्तेश्च । अपि च द्रव्यत्वेन एकमाकाशं प्रदेशभेदेन त्वनन्तमितीष्टत्वात् "दृष्टान्ताभावः ।
૧૬
नीलद्रव्यवदिति चेत्; न; असिद्धत्वात् |७| स्यान्मतम् - यथा "नीलीद्रव्यमेकम् अनेकशाटी३० पटकम्बल संबन्धि दृष्टं तथैकं द्रव्यत्वमपि अनेकद्रव्यसंबन्धीति । तन्न; किं कारणम् ? असिद्धत्वात् । नैतत् सिद्धं शाटीपटकम्बलेषु एकमेव नीलीद्रव्यमिति । यथा शाट्यादिभेदः तथा
१ अर्थान्तरस्य द्रव्यमित्यमिधानं 'कुतः १ स्वत एवेति चेत् द्रव्ये कोऽपरितोषः ? अर्थान्तरादिति चेत्; तत्रापि स एव दोषः । २ यथा द्रव्यत्वस्य द्रव्यमित्यभिधानं तथा द्रव्यस्यापि । ३ कुतः । ४ “ गुणवचनेभ्यो मतुपो लुगिष्टः ।" - पा० वा० ५।२२६४ । ५ व्यवहार । ६ किन्तु सामान्यवचनः । ७ मत्वर्थस्यापि मु० । ८ अङ्गीकृत्यापि दूषयति द्रव्यत्ववद् द्रव्यमित्यत्र यथाकथञ्चन मतोर्निवृत्तिर्भवतु तथापि द्रव्यत्वेन योगात् द्रव्यमित्यत्र त्वस्यापि निवृत्तिर्नान्वाख्यातेति । ६ विचारणीयम् । १० यदात्मभू-ता०, श्र० । ११ त्वत्वोत्प ता०, श्र० । १२ तावताऽपरितुष्टः सन् पुनरपि सम्बन्धं निराकर्तुकाम आह । १३ धूमवस्व । १४ अग्निमत्त्व | १५ वादः । १६ अस्माकम् । १७ नीलद्र-ता० द०, ब०, मु० ।