________________
तत्त्वार्थवार्तिके
[१२७-२८ अर्थादिभिः परगुह्यप्रकाशनं साकारमन्त्रभेदः ।। अर्थप्रकरणाङ्गविकारभ्रूविक्षेपादिभिः पराकूतमुपलभ्य तदाविष्करणमसूयादिनिमित्तं यत्तत्साकारमन्त्रभेद इति कथ्यते । त एते सत्यत्रतस्य पञ्चातिक्रमाः। स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिकमहीनाधिकमानो
न्मानप्रतिरूपकव्यवहाराः ॥ २७ ॥ मोषकस्य त्रिधा प्रयोजनं स्तेनप्रयोगः।१। मुष्णन्तं स्वयमेव वा प्रयुङ्क्ते, अन्येन वा प्रयोजयति, प्रयुक्तमनुमन्यते वा यतः स स्तनप्रयोगो वेदितव्यः ।
चोरानीतग्रहणं तदाहृतादानम् ।२। अप्रयुक्तेनाननुमतेन च चोरेणानीतस्य ग्रहणं तदाहृतादानं प्रत्येतव्यम् । तत्र को दोषः ? परपीडाराजभयादयः प्रतीताः। एतेन विरुद्धराज्याति१० क्रमादयो व्याख्याताः।
उचितादन्यथा दानग्रहणमतिक्रमः ।३। उचितान्न्याय्यात् अन्येन प्रकारेण दानग्रहणमतिक्रम इत्युच्यते । विरुद्धं राज्यं विरुद्धराज्यं विरुद्धराज्येऽतिक्रमः विरुद्धराज्यातिक्रमः। तत्राल्पमूल्यलभ्यानि महा_णि द्रव्याणिति प्रयत्नः।
कूटप्रस्थतुलादिमिः क्रयविक्रयप्रयोगो हीनाधिकमानोन्मानः ।४। प्रस्थादि मानं तुलाधु१५ न्मानम् । एतेन न्यूनान्यस्मै देयं अधिकेनात्मनो ग्राह्यमित्येवमादिकूटप्रयोगः हीनाधिकमानोन्मानमित्याख्यायते ।
कृत्रिमहिरण्यादिकरणं प्रतिरूपकव्यवहारः ।५॥ कृत्रिमैः हिरण्यादिभिः कचनापूर्वको व्यवहारः प्रतिरूपकव्यवहार इति व्यपदिश्यते । त एते पञ्च अदत्तादानविरतेरतीचाराः। २० परविवाहकरणेत्वरिकाऽपरिगृहीतापरिगृहीतागमनानङ गक्री
डाकामतीव्राभिनिवेशाः ॥ २८ ॥ सद्वेद्यचारित्रमोहोदयाद्विवहनं विवाहः ।। सद्वेद्यस्य चारित्रमोहस्य चोदयात् विवहनं कन्यावरणं विवाह इत्याख्यायते । परस्य विवाहः परविवाहः परविवाहत्य करणं परविवाहकरणम् ।
अयनशीलेवरी ।२। ज्ञानावरणक्षयोपशमापादितकलागुणज्ञतया चारित्रमोहस्त्रीवेदोदयप्रकर्षादङ्गोपाङ्गनामोदयावष्टम्भाश्च परपुरुषानेति गच्छतीत्येवंशीला इत्वरी। ततः कुत्सायां कः, इत्वरिका । अपरिगृहीता च परिगृहीता च अपरिगृहीतापरिगृहीते। या गणिकात्वेन पुंश्चलित्वेन वा परपुरुषगमनशीला अस्वामिका सा अपरिगृहीता । या पुनः एकपुरुषभर्तृका सा परिगृहीता।
इत्वरिके च ते अपरिगृहीतापरिगृहीते च इत्वारिकाऽपरिगृहीतापरिगृहीते तयोर्गमनं इत्वरिका३० परिगृहीतापरिगृहीतागमनम् ।
अनङ्गेषु क्रीडा अनङ्गक्रीडा ।३। अङ्गं प्रजननं योनिश्च ततोऽन्यत्र क्रीडा अनङ्गक्रीडा । अनेकविधप्रजननविकारेण जघनादन्यत्र चाङ्गे रतिरित्यर्थः ।
कामस्य प्रवृद्धः परिणामः कामतीव्राभिनिवेशः ।४। कामरय प्रवृद्धः परिणामः अनुपरतवृत्त्यादिः कामतीब्राभिनिवेश इत्युच्यते । एते पञ्च स्वदारसन्तोषव्रतस्यातिचाराः । ३५ दीक्षितातिबालातैर्यग्योन्यादीनामनुपसंग्रह इति चेत् ; न; कामतीवाभिनिवेशग्रहणात्
सिद्धेः ।। स्यान्मतम्-दीक्षिता अतिबाला तैर्यग्योनीत्येवमादीनामनुपसंग्रह इति; तन्न; किं