________________
दम्भाम्भोरुहिणीविकाशनविधौ योऽभोजिनीवल्लभो,
यो लांपट्यकलाकलापजलधौ पीयूषपादोपमः ।
यः स्पर्धवसुधारुहालिजलदो यश्चोत्पथप्रस्थितौ, पारीणश्च तमुद्धरं विषयिणां वातं जयन् भद्रभाक् ।।१२७।।
mej
स प्राज्यैर्खलनैर्विना रसवतीपाकं चिकीर्षः कृधीस्त्यक्त्वा पोतमगाधवार्धितरणं दोभ्र्त्यां विधित्सुश्च सः । बीजानां वपनैर्विनेच्छति स च क्षेत्रेषु धान्योद्गम, योऽक्षाणां विजयैर्विना स्पृहयति ध्यानं विधातुं शुभम्
॥१२८॥
रागद्वेषविनिर्जयाम्बुजवने य: पदिानीनां पतिः, कृत्याकृत्यविवेककाननपयोवाहप्रवाहश्च यः ।
य: सद्बोधविरोधभूधरशिरःशंबप्रहारोपमः, साम्योल्लासमयं तमिन्द्रियजयं कृत्वा भवानन्दवान्
||१२९।।