________________
घोषेषु स्थितिमीहते स विमतिर्मुक्त्वामराणां पुरीं, त्यक्त्वा मंदरमेदिनीमवकरानुत्खातुमुत्कश्च सः । पातुं वाञ्छति मुक्तनिर्मलजलः स ग्राममार्गोदकम्, त्यक्त्वात्मप्रमदाः परप्रियतमा यः सेवितुं काङ्क्षति ।। १२४ ।।
उपजातिवृत्तम् निजांगनासंगमनंगरंगादन्येषु वाञ्छत्सु यथात्मकोपः । तथा परेषामिति मन्यमानास्त्यजन्ति सन्तः परकीयपत्नीः || १२५ ।।
ઈન્દ્રિય પ્રક્રમ शार्दूलविक्रीडितवृत्तम्
सारंगान् भ्रमरानिभांश्च शलभान् मीनांश्च मृत्युंगतान्, कर्णघ्राणशरीरनेत्ररसनाकामैः प्रकामोत्सुकः ।
दृष्ट्रा शिष्टपथप्रवृत्तिविपिनश्रेणीसमुत्पाटने, साटोपं द्विपमिन्द्रियव्रजमिमं धीमान् विधत्ते वशम् ।। १२६ ।।