________________
उपजातिवृत्तम् जीवान् घ्नतां यत्र नभोऽम्बुभूगान्, भवत्रयार्थः समुपैति हानिम् ।
आखेटकं पेटकमापदां कः, कौतूहलेनापि करोति धीमान् ।।११५।।
ચોરીત્યાગ પ્રમ
शिखरिणीवृत्तम् प्रहारो यष्ट्यायैस्तदनु शिरसो मुंडनमथो, खरारोपाटोपस्तदनु च जगद्गालिसहनम् ।
ततः शूलारोहो भवति च ततो दुर्गतिगतिविचार्यंतच्चौर्याचरणचरितं मुञ्चति न कः ।।११६।।
नृणां प्राणा बाह्या यदनघयशो यद्यदमल:, कुलाचारो यच्चानुपममहिमा यच्च गरिमा ।
कलानां यत्केलिर्यदसमतमा रुपरचना, धनं तद्यैरात्तं निखिलमपि तैः संहृतमिदम् ।।११७।।