________________
संपर्क नरकैः कलिं च कुशलैर्वैरं सतां संगमैः, प्रीतिं भीतिभरैरघैः परिचयं प्रेमापदां प्रापणैः ।
उद्वेगं विनयैर्नयैरमिलनं चेदीहसे हे सखे !, सत्वव्रातभयंकरं कुरु तदा साटोपमाच्छोदनम् ||११२।।
आक्रन्दा वनवासिनामसुमतां गीतानि तेषामृसक्, कुल्याः कुङ्कुमहस्तका अनुचराः कुराः शुनां राशयः । जन्तुव्रातपलान्यहो रसवती यस्मिन् मृगव्यामहे, श्वभ्रस्त्री परिरभ्यते मृगयुभिः कस्तत्र गच्छेत् सुधीः ।।११३।।
ये नीरं निपिबन्ति निर्झरभवं कुंजे च ये शेरते, ये चाश्नन्ति तृणानि काननभुवि भ्राम्यन्ति येऽहर्निशम् । ये च स्वैरविहारसारसुखिता निर्मन्तवो जन्तवो, हत्वा तान् मृगयासु कः समभच्छुभ्रेषु नाभ्यागतः ।। ११४।।