SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ शिखरिणीवृत्तम् धनं प्रीतिर्यासां धनमपि च रूपं निरूपमं, धनं चार्वाचारो धनमपि च बुद्धिर्निरवधिः । धनं देवो यासां धनमपि च यासां गुरुरिह, विधत्ते वेश्यासु प्रणयमिह कस्तासु मतिमान् ।। १०९ ।। वसंततिलकावृत्तम् मास्म स्मर स्मरनरेशवरुथिनीनां, तासां पणाम्बुजदृशां हि दृशां विलासान् । यद्रूपदीपकलिकासु मनोहरासु, स्नेहक्षयासु बहवः शलभीभवन्ति ।। ११० ।। શિકારત્યાગ પ્રક્રમ शार्दूलविक्रीडितवृत्तम् तेभ्यः श्वापदपेटकैः सहसुखैः सर्वैरपि त्रस्यते, तैः सार्धं भषणा भ्रमन्ति विपदां पूराद्रवप्रोन्मुखाः । विध्यन्ते विविधायुधैश्च पशवः पुण्यैः समं तैः समे, ये मूढा अटवीमटन्ति विकटां प्रारब्धपापर्द्धयः ।।१११।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy