________________
વેશ્યાત્યાગવૃક્રમ
शार्दूलविक्रीडितवृत्तम् यद्वक्त्रं विटकोटिवक्त्रनिपतन्निष्ठीवनानां घटी, यद्वक्षश्च जनंगमादिजनतापाणिप्रहारास्पदम् ।
यद्गानं बहुबाहुदंडनिबिडक्रोडीकृतिभ्रंशितं, प्रेमैतासु दधाति धावकशिलातुल्यासु वेश्यासु कः ।।१०६।।
रत्येवासमसायकः पशुपतिः पुत्र्येव भूमिभृतः, शच्येवाप्सरसां पतिर्मुररिपुः पुत्र्येव पाथोनिधेः ।
रोहिण्येव सुधामरीचिरवनेः पुत्र्येव पौलस्त्यजिद्, बाहुभ्यां परिरभ्यते गणिकया वित्तेहया कुष्ट्यपि ।।१०७।।
उपजातिवृत्तम् यासु व्रजन् याति जनः कदाचिज्जाम्यां च मातर्यपि मोहमूढः ।
अनेकलोकैः प्रतिसेवितासु, किं तासु वेश्यासु रतिः शुभाय ।।१०८।।