________________
CONTYFTEGO
शार्दूलविक्रीडितवृत्तम् यद्भ्राम्यन्ति गृहे गृहे विवसना यच्चत्वरे शेरते, यद्भमौ निपतन्त्यमुद्रितमुखा यच्चारटन्ति स्फुटम् । यद्वीथीषु विशन्ति कोशितदृशो जल्पन्त्यजल्प्यं च यत्, - यद्बाढं च रुदन्ति मूढमतयस्तन्मद्यविस्फुर्जितम् ।।१०३।।
व्याधीनामवधिं पदं च विपदामुन्मादमाद्यद्धियां, धामाधन्यगिरां गुहामयशसां स्थानं खनिं चैनसाम् ।
आधारं च युधां क्रुधां परिषदं संभोगभूमिं भियां, मृचाचारविचारचारुरचनानिर्वारिणीं वारुणीम् ।।१०४।।
FORC ROO
हरिणीवृत्तम् मतिकमलिनीनागं छागं दुरूहहविर्भुजः, प्रकटितदयादैन्यं सैन्यं प्रमादमहीपतेः । व्यसनपयसां सिन्धुं बन्धुं कषायधरास्पृशां, परिहर सुरापानं यानं विपत्पुरवम॑नि ।।१०५।।