________________
(GE
ये व्यापारपरायणाः प्रणयिनीप्रेमप्रवीणाश्च ये, ये धान्यादिपरिग्रहग्रहगृहं सर्वाभिलाषाश्च ये ।
ये मिथ्यावचनप्रपञ्चचतुरा येऽहर्निशं भोजिनस्ते सेव्या न भवोदधौ कुगुरवः सच्छिद्रपोता इव ।।५८।।
६७
ये विश्वासपदं च ये प्रतिभुवो निर्वाणशर्मार्पणे, ये चाधोगतिदुर्गमार्गगमनद्वारप्रवेशार्गलाः ।
धर्माधर्महिताहितप्रकटनप्राप्तप्रमोदाश्च ये, ते सेव्या भववारिधौ सुगुरवो निश्च्छिद्रपोता इव ।।५९।।
0960
SCIRCTC
वसंततिलकावृत्तम्, चेद्दानशीलतपसां फलमाप्तुमीहा, स्वर्गापवर्गपुरयोः पथि चेद्यियासा ।
वाञ्छा च चेत्सुकृतदुःकृतयोविवेके, सेव्यः समाधिनिधिरेष गुरुस्तदार्यैः ।।६०।।