________________
स्वागतावृत्तम् यत्प्रसादवशतः करिलीलां, पूतरप्रतिमितोऽप्युपयाति । पादयोः प्रविदधीत न पित्रोः, किं तयोः स तनयः समुपास्तिम्
॥५५।।
ગુરુસેલ્લા પ્રમ
वसंततिलकावृत्तम् किं पाथसां मथनवत् कुरुषे सुखेच्छु,- बंधो!
मुधैव विविधं निकरं क्रियाणाम् ।
वस्तुप्रकाशनपटुः प्रकटप्रभावो, दीप्रप्रदीप इव चेद् गुरुरादृतो न ।।५६।।
शार्दूलविक्रीडितवृत्तम् न ध्वंसं विदधाति यस्तनुमतां ब्रूते न भाषां मृषां, न स्तेयं वितनोति न प्रकुरुते भोगांश्च वक्रभृवाम् । न स्वर्णादिपरिग्रहग्रहिलतां धत्ते च चित्ते क्वचित्, संसेव्यो गुरुरेष दोषविमुखः संसारपारेच्छुभिः ।।५७।।