________________
લોભત્યાગપ્રઝમ
शार्दूलविक्रीडितवृत्तम् नाशं यो यशसां करोति रजसा वातोऽनिलानामिव, त्रासं यो महसां तनोति वयसां पात: शराणामिव । शोभा यो वचसां हिनस्ति पयसां वृष्टिर्घनानामिव, त्यक्त्वा कृत्यकरीन्द्रकुम्भशरभ लोभं शुभंयुभव ।।४६।।
किं ध्यानैर्मुखपदामुद्रणचणैः किं चेन्द्रियाणांजयैरुद्धेच्छैस्तपसां पुनः प्रतपनैः किं मेदसां शोषणैः । किं वाचां जनितश्रमैः परिचयैः किं क्लेशयुक्तैर्ऋतैश्छल्लोभोऽखिलदोषपोषणपटुर्जागर्ति चित्तेर्तिभूः ।।४७।।
स स्थैर्येकनिकेतनं स सुभटश्रेणिषु चूडामणिः,
स प्रागल्भ्यपरानुभावसुभगः स ध्यानधुर्धर्वहः । स श्रेष्ठः स च पुण्यवान् स च शुचिः स श्लाघनीयः सतां, येनागण्यगुणालिवल्लिकलभो लोभो भृशं स्तम्भित: ।।४८।।