________________
तावद्यालबलं च केसरिकुलं तावत्क्रुधा व्याकुलंतावद्भोगिभयं जलं च जलधेस्तावद्भशं भीषणम् ।
तावच्चामयचौरबंधरणभीस्तावल्लसन्त्यग्नयो, यावन्नति जगज्जयी हृदि महान् श्री शीलमंत्राधिपः ।।१९।।
न्यस्ता तेन कुलप्रशस्तिरमला शीतयुतेर्मंडले, भ्राम्यस्तेन नभस्वतां सहचरश्चक्रे स्वकीर्तेर्भरः । तेनालेखि निजाभिधानमनघं बिंबे च रोचिष्मतः, कामं कामितकामकामकलशं य: शीलमासेवते ।।२०।।
न स्वर्भोज्यमिव त्यजन्ति वदनात् स्वोषितस्तद्यशो,
नैवोज्झन्ति तदंघिरेणुममरा मौलेश्च मालामिव । सिद्धध्यानमिवोद्वहन्ति हृदये तन्नाम योगीश्वराः, शीलालंकृतिमंगसंगतिमतीं ये जंतवः कुर्वते ।।२१।।