________________
CONDARI
ये शीलं परिशीलयन्ति ललितं ते सन्ति भूयस्तरास्तप्यन्ते ननु ये सुदुस्तरतपस्ते सन्ति चानेकशः ।
ते सन्ति प्रचुराश्च भासुरतरं ये भावमाबिभ्रते, ये दानं वितरन्ति भूरि करिवत्ते केचिदेवावनौ ।।१३।।
GODASH600
N24
संजातात्मजसंभवादिव महादेवीप्रसादादिव, प्राप्तैश्चर्यपदादिव स्थिरतरश्रीभोगयोगादिव । लब्धस्वर्णरसायनादिव सदा संगादिव प्रेयसां, देहीत्यक्षरयोः श्रुतेरपिभवेद्दातावदाताननः ।।१४।।
धैर्य धावतु दूरतः प्रविशतु ध्यानं च धूमध्वजे, शौर्यं जर्जरतां प्रयातु पटुता दृष्टाटवीं टीकताम् ।
रूपं कूपमुपैतु मूर्च्छतु मतिर्वंशोऽपि विध्वंसतां, त्यागस्तिष्ठतु येन सर्वमचिरात्प्रादुर्भवेदप्यसत् ।।१५।।